________________
[ आख्याते यङलुगन्तप्र०] टीकाद्वयोपेता।
(१६१) अजधुः। सिपि द इति दस्यरः।रिलोपोदीर्घश्चेति रलोपपूर्वदीर्घो। अजर्घाः-अज । जर्गद्धांचकार । जर्णोध्यात्। जर्धिता । जर्धिष्यति । अजर्धिष्यत् । अजर्गीत् ॥ प्रच्छ जीप्सायाम् । आत इति पूर्वस्यात्वम् । पाप्रच्छीति । ईडभावे छशषेति षत्वं ष्टुत्वमापाप्राष्टि। तसादौ प्रत्यये ग्रहां ङिति चेति संप्रसारणं न श्तिपा निर्दिष्टत्वात् ॥
(तत्त्वदी०)-पितः स्मो वेट्र॥ स्म इत्यत्रापि द्वितकारको निर्देशः।एको दकारजः॥ अपास्पा इति ॥ द इति रत्वे रिलोप इति दीर्घः । ऋदन्तानामित्यादिरुगादीनां त्रयाणामपि कित्त्वाप्रयोऽप्यागमाः पर्यायेण भवन्ति । रुक उकार उच्चारणार्थः। चर्करीति ॥ ईकारे रूपत्रयं तदभावे च रूपत्रयमिति षट् तिपि॥जंगत इति ॥ लोपस्त्वनुदात्ततनामिति मलोपः।।जंगन्मीति॥ मोश्चेति मस्य नः । जंघनीति ॥ पूर्ववत् हन्तेरिति घत्वम् । आशिषि वध्यादिति ॥ द्विरुक्तस्य वधादेशावित्वं न । एकस्यां व्यक्तावेकलक्षण सकृदेव प्रवर्तत इत्युक्तेः॥चञ्चूर्तीति ॥ चर गतिभक्षणयोः । चरफलोरत उदिति उत्वे य्वोर्वि हस इति दीर्घः।।चंखात इति ॥जनसनेत्यात्वम् । योयोतीति ॥ अद्विरुक्तस्येत्यनुवृत्तरोरावित्यौत्वं न दात्त इति ॥ दादेरित्यकारलोपः ।। देहीति ॥ दां हावित्येत्वलोपौ ॥ चाकर्तीति ॥ ऋदन्तानामित्यत्र तपरकरणान्न रुगादयः । अरर्तीति ॥गुणो द्वितीयस्य अरियार्त । पक्षद्वयेऽपि इयादेशे तु समम् ॥जाग्रहीतीति॥ईकाराभावे ढत्वधत्वष्टुत्वढलोपदीर्घत्वानि । कैश्रिदत्र संप्रसारणे जगृहीतीत्यादि रूपमुक्तं तदनाकरमित्युपेक्षितम् ॥ बहिरङ्गत्वे इति ।। प्रत्ययाश्रित बहिरङ्गमित्युक्तेः॥ अजर्घा ॥ इति ॥ द इति रत्वे रिलोप इति दीर्घः। तसादौ न संप्रसारणमेतद्बीजं तु श्तिपा निर्देशः। उक्तं च "श्तिपा शपानुबन्धेन निर्दिष्ट यद् गणेन च । यत्रैकाज्ग्रहणं चैव पञ्चतानि न यङ्लुकि ॥” इति ॥ - (क्ङिति झसे क्वौ ञमे च छस्य शो वस्य ऊः) पाप्रष्टः, पाप्रच्छति । पाप्रश्मि, पाप्रछः, पाप्रश्मः ॥ हय गतौ । जाहयोति । यवयोर्वसे हकारे च लोपः ॥ जाहति, जाहतः, जाहयति । जाहयिषि-जाहसि । जाहामि, जाहावः, जाहामः । अजाहयीत् । अजाहत् । जाहय्यात् ॥ हर्य गतिकान्त्योः । जाह-तिजाहर्ति, जाहर्तः, जाहर्यति । जाहर्हि । अजाह-त्-अजाहः, अजाहर्ताम्, अजाहयुः॥
(सुबोधिनी)-क्ङिति झसे को अमे च छस्य शो वस्य ऊः॥धातोश्छस्य शकारःस्यात् वकारस्य ऊश्चकिति ङिति झसे परे किपि जमेच परे । भाष्ये उक्तं च्छोरित्यनेन ऊभाविनायकारवकारान्तानां धातूनांयङोलुङ्न भवतीति। मव्य बन्धने या न्तः तेवृ देवृ देवने इत्यादिवान्तश्च ऊभावी। ज्वरत्वरेति ऊभाविनोः निविमव्योस्तु यङ्लुगस्त्येवेति । उस्य शः छशषेति षः । पाप्रष्टः । पापच्छति । पाप्रच्छीषि-ईडभावे छशषेति षः ॥ षढोः कः से इति कः । पाप्रक्षि । उत्तमे तु पाप्रश्मि । पामच्छयात् ।
११