________________
[ आख्याते पदव्यवस्था • ]
टीकाद्वयोपेता ।
( १७९ )
( सुबोधिनी ) - समवप्रविभ्यः स्थः ॥ लुङि । अपिदाधास्थामिदितीत्वम् । समस्थिषाताम् ॥
( आङः प्रतिज्ञायाम् ) शब्द नित्यमातिष्ठते ॥
(सुबोधिनी ) - आङः प्रतिज्ञायाम् ॥ शब्दं नित्यमातिष्ठते । नित्यत्वेन प्रतिजानीत इत्यर्थः ।
( स्वाभिप्रायाविष्करणे निर्णेत्राख्यायां च ) गोपी कृष्णाय तिते । अस्थित | 'संशय्य कर्णादिषु तिष्ठते यः ॥
( सुबोधिनी) - स्वाभिप्रायाविष्करणे निर्णेत्राख्यायां च ॥ स्वाशयस्पप्रकाशने विवादस्य निराकरणकर्ता निर्णेता तस्मिन्नर्थे च तिष्ठतेरात्स्यात् । गोपी कृष्णाय तिष्ठते । स्थित्या नेत्रादिविकाराद्वा स्वाभिप्रायं ज्ञापयति । 'संशय्य कर्णादिषु तिष्ठते यः संशयं विधाय निर्णेतृत्वेन कर्णादीनाश्रयत इत्यर्थः ॥
( तत्त्वदी ० ) - निर्णेत्राख्यायामिति ॥ निर्णेता विवादस्य निराकरणकर्ता लोके प्रसिद्धः ॥ कृष्णाय तिष्ठत इति ॥ स्वस्थित्या नेत्रादिविकारद्वारा स्वाभिप्रायविशेष ज्ञापयतीत्यर्थः ॥ संशय्य कर्णादिष्विति ॥ संशयं निर्णेतुं कर्णादिषु तिष्ठतीत्यर्थः । अन्ये तु संशयस्य कर्णादय एव निर्णेतार इत्येवार्थ इति वदन्ति ।।
( उदोऽनूर्ध्वकर्मणीहायाम् )मुक्ताबुत्तिष्ठते । उद: स्थास्तम्भोः सलोपः । उत्थासीष्ट, उत्थासीयास्ताम् । उदस्थास्यत । उदस्थित । अनूर्ध्वकर्मणि किम् । पीठादुत्तिष्ठति । ईहायां किम् । ग्रामाच्छतमुतिष्ठति ॥
( सुबोधिनी) - उदोऽनूर्ध्वकर्मणी हायाम् ॥ इच्छापूर्विका चेष्टा ईहा तस्यामेव नेह | ग्रामाच्छतमुत्तिष्ठति । उत्पद्यत इत्यर्थः ॥
( तत्त्वदी० ) -- उद् इति ॥ कर्म क्रिया । ईहा परिसन्दः । मुक्तावुत्तिष्ठत इति मुक्त्यर्थं घटत इत्यर्थः ॥ ईहायां किम् । ग्रामाच्छतमुत्तिष्ठति । उत्पद्यत इत्यर्थः । उत्पत्तिः क्रिया न तु परिस्पन्दात्मिकेत्यादभावः ॥
( उपान्मन्त्रकरणदेवपूजासङ्गतिकरणमित्रकरणपथिषु) आग्नेय्याग्नीधमुपतिष्ठते ॥ मन्त्रकरणे किम् । भर्तारमुपतिष्ठति यौवनेन । आदित्यमुपतिष्ठते । गङ्गा यमुनामुपतिष्ठते । रथिकानुपतिष्ठते । सुनमुपतिष्ठते पन्थाः ॥
(सुबोधिनी) - उपान्मन्त्रकरण देवपूजासङ्गतिकरणमित्रकरणपथिषु ॥ एष्वर्थेषूपात्तिष्ठतेरात्स्यात् ॥ मन्त्रः करणं यत्र तन्मन्त्रकरणं स्तुतिः । आग्नेय्याग्नीधमुपतिष्ठते । अग्निदेवताकया ऋचाऽऽग्रीघ्रमग्निविशेषं स्तोतुं तत्समीपे तिष्ठतीत्यर्थः ।