________________
(१८०)
सिद्धान्तचन्द्रिका। [ आख्याते पदव्यवस्था० ] अग्निमिन्धे इति अग्नीत् क्विवन्तः । अग्नीधः स्थानमाग्नीध्रम् । तत्स्थोऽऽप्याग्नीध्रः । निपातनात्तद्धितो रणप्रत्ययः॥ मन्त्रकरणे किम् । भर्तारमुपतिष्ठति यौवनेन । आदित्यमुपतिष्ठते । आदित्यं स्तोतुं तदभिमुखतया तिष्ठतीत्यर्थः । गङ्गा यमुनामुपतिष्ठते । उपश्लिष्यतीत्यर्थः । रथिकानुपतिष्ठते । मित्रीकरोतीत्यर्थः । पन्थाः मुनी देशस्तमुपतिष्ठते प्राप्नोतीत्यर्थः।
(तत्त्वदी०)-उपान्म० ॥ मन्त्रं करणं कारकम् । देवानां पूजा ॥ संगतिः संश्लेपः । मित्रस्य करणम् । पन्था मार्गः। स च कर्तृत्वेन संबध्यते॥ आदित्यमुपतिष्ठत इति।पूजयतीत्यर्थः ॥ यमुनामिति ॥ उपश्लिष्यतीत्यर्थः॥ रथिकानिति। मित्रीकरोतीत्यर्थः ॥ पन्था इति ॥ प्राप्नोतीत्यर्थः ॥
(वा लिप्सायाम) भिक्षुः प्रभुमुपतिष्ठते-उपतिष्ठति वा ।। (सुबोधिनी) वा लिप्सायाम् ॥ प्रभुमुपतिष्ठते-उपतिष्ठति वा । लिप्सयोपगच्छतीत्यर्थः॥ (तत्त्वदी० )-वा लिप्सायामिति ॥ लब्धुमिच्छा लिप्सा तस्यां गम्यमानायामित्यर्थः ।। (अकर्मकाच्च ) ज्ञानमुपतिष्ठते । उत्पद्यत इत्यर्थः॥ (सुबोधिनी)-अकर्मकाञ्च ॥ उपात्तिष्ठतेरकर्मकादात्मनेपदं स्यात् ॥ भोजन काले उपतिष्ठते । सन्निहितो भवतीत्यर्थः।
(तत्त्वदी०)-अकर्मकाञ्चेति ॥ कर्म कारकं न तु क्रिया |ज्ञानमुपतिष्ठत इति ।। सन्निधत्त इत्यर्थः ॥
(उद्विभ्यां तपोऽकर्मकात्स्वाङ्गकर्मकाच्च) उत्तपते वितपते पाणि शिरो वा ॥ स्वाङ्गकर्मकात्किम् । सुवर्णमुत्तपति ।।
( सुबोधिनी)-उद्विभ्यां तपोऽकर्मकात्स्वाङ्गकर्मकाञ्च ॥ स्वमङ्गं स्वाङ्ग न त्वद्रवमिति परिभाषितम् । उत्तपते । वितपते । दीप्यते इत्यर्थः । नेह सुवर्णमुत्तपति । संतापयति विलापयति वेत्यर्थः ॥ चैत्रो मैत्रस्य पाणिमुत्तपति । संतापयतीत्यर्थः । (तत्त्वदी० )-उत्तपत इति ॥ दीप्यत इत्यर्थः ।
(आङो यमहनिभ्यामकर्मकाभ्यां स्वाङ्गकर्मकाभ्यांच)आयच्छते आहते पाणि शिरो वा । आनाते । आहसे । अन्यत्र । शत्रुमायच्छति आहन्ति वा ॥
(सुबोधिनी) आङो यमहनिभ्यामकर्मकाभ्यां स्वाङ्गकर्मकाभ्यां च ॥ यमहनिभ्यामात् ॥ नेह परस्य शिर आहन्ति । कथं तर्हि 'आजघ्ने विषमविलो. १ मूलतत्त्वदीपिकयोः 'भाजनकाल उपतिष्टते' इति पाठ इति कोचित् ।
Thillallinna lilla