________________
[ आख्याते पदव्यवस्था० ]
इयता ।
( १८१ )
चनस्य वक्षः' इति भारविः । ' आहध्वं मा रघूत्तमम्' इति भट्टिश्च । प्रमाद एवायमिति । समीपमेत्येत्यध्याहारो वा बोध्यः। विषमविलोचनस्य समीपमेत्य वृक्ष आजघ्ने । स्वकी - यमेव वक्षो मल इव संतोषातिशयादास्फोटनं चक्रे इत्यर्थः ॥
( तत्त्वदी ० ) - आङ इति ॥ अकर्मकस्वाङ्गकर्मकयोरनुवृत्तिरत्रापि॥आयच्छत इति ॥ दीर्घौ भवतीत्यर्थः ॥ आहत इति ॥ नलोपः आन्ना । ' आजघ्ने विषमविलोचनस्य वक्षः' इत्यादौ तु प्राप्येत्यध्याहारो बोध्यः ॥
( हनः सिः कित् ) वधो वाति ॥ आहत । आवधिष्ट, आवधिषा
ताम्-आसाताम् ॥
(सुबोधिनी ) - हनः सिः कित् ॥ हन्तेः परः सिः प्रत्ययो वा कित् स्यात् । नो लुङलिङोरिति धादेशः । आवधिष्ट, आवधिषाताम् । पसे कित्त्वात् लोपस्त्वनुदात्ततनामिति नलोपः । लोपो हस्वादिति सिलोपः। आहत, आहसाताम्, आहसत ॥
( यमः सूचने सिः कित ) उदायत, उदायसाताम्, उदायसता ( सुबोधिनी ) - यमः सूचने सिः कित् ॥ सूचनं परदोषाविष्करणम् । कित्त्वालोपस्त्वनुदात्ततनाभिति मलोपः । लोपो हस्वादिति सिलोपः । उदायत । सूचने किम् । उदास्त पादम् | आकृष्टवानित्यर्थः ॥
( तत्त्वदी ० ) - मूचन इति ॥ परेणाच्छाद्यमानस्याविष्करण इत्यर्थः उदायत इति ॥ परावद्यं प्रकाशयति स्मेत्यर्थः ॥
(समो गम्यच्छिमच्छिस्वरत्यर्तिश्रुविदिद्यशिभ्योऽकर्मकेभ्यः ) संगच्छते ॥
( सुबोधिनी ) - समो गम्यृच्छिप्रच्छिस्वरत्यत्तिश्रुविदिदृशिभ्योऽकर्मकेभ्यः ॥ समुपसर्गादकर्मकेभ्यो गम्यृच्छयर्तिश्रुहशिभ्यः प्रच्छिस्वरतिविदिभ्यः सकर्मकेभ्यश्चात्स्यात् ॥ सङ्गच्छते । संगतं भवतीत्यर्थः ॥
(तत्त्वदी ० ) - समो गम्यृच्छीति ॥ ऋच्छ गत्यादौ । आदेशस्तु न अर्तेः पृथग्ग्रहणात् । विदीति वेत्तेरेव ग्रहणं गम्यादिपरस्मैपदि साहचर्यात् ॥ संगच्छत इति ॥ युज्यत इत्यर्थः । अकर्मकादित्येव । ‘रक्षांसीति पुरापि संशृणुमहे' इति मुरारिप्रयोगस्तु इति कथं यद्भय इत्यध्याहारेण समाधेयः । अर्थान्तरे वृत्तेरकर्मकत्वं सकर्मकाणामपि ॥
( गमेः सिस्यौ कितौ वा ) सङ्गसीष्ट - संगंसीष्ट । समगत - समगंस्त ॥ समृच्छिष्यते । समानृच्छे । समाच्छिष्ट ॥ संस्वरते । संसस्वरे। संस्वरिषीष्ट - संस्वृषीष्ट । समस्वरिष्ट समस्वृतं ॥ संपृच्छते । समप्रष्टु, समप्रक्षाताम् ॥ संशृणुते | संश्रोता । समश्रोष्ट ॥ संवित्त, संविदाते ॥