________________
( १८२ )
सिद्धान्तचन्द्रिका |
[ आख्याते पदव्यवस्था • ]
( सुबोधिनी ) - गमेः सिस्यौ कितौ वा ॥ गमेरनिटी सिस्यौ वा कितौ स्तः ॥ आशिषि लिङ कित्त्वाल्लोपस्त्वनुदात्ततनामिति मलोपः । संगसीष्ट-पक्षे संगंसीष्ट । लुङि कित्त्वान्मलोपे लोपो हस्वादिति सिलोपः । समगन, समगसाताम्, समगसत । कित्त्वाभावे समगंस्त, समगंसाताम्, समगंसत । तौदादिकस्य ऋच्छेरत्र ग्रहणम् न तु ऋच्छादेशस्येति ध्वननार्थं लृटः प्रयोगः । समृच्छिष्यते ॥ ग्रहामिति संप्रसारणम् । संपृच्छते ॥ स्वृ शब्दोपतापयोः । संस्वरते ॥ अर्तीति भावादिकजौहोत्यादिकयोर्ग्रहणम् । तत्र भ्वादेः समृच्छते । लिटि समाराते, समारिं । लिङि उरिति न गुणः । समृष्टि । समर्ता । हून्नृत इतीदूं । समरिष्यते । समारिष्यत लुङि मेट इत्यटोऽभावः । उरिति न गुणः । लोपो हस्वादिति सिलोपामा समृत, या समृषाताम् मा समृषत माङभावे समार्च, समार्षाताम् समार्षत। इयर्तेस्तु ऋमोरिः पूर्वस्येति पूर्वस्येत्वे अस वर्णे स्वरे पूर्वस्येतीय् । समीयृते । लुङि सर्तिशास्त्यत्तिभ्य इति ङः । ऋवर्णदृशांरिति गुणः । मेट इत्यडभावः । मा समरत, मा समरेताम्, मा समरन्त । माङभावे समारत, समारेताम्, समारन्त॥ श्रुवः शृआदेश इति शृआदेशो (प्रत्ययश्च । संशृणुते। परस्मैपदसाहचर्याद्विद् ज्ञाने इत्यस्यैव ग्रहणं न तु स्वरितेतो विद्ल लाभे इत्यस्य । सत्ताविचारणार्थस्य विदेस्त्वनुदात्तत्वादात्मनेपदं सिद्धमेव ॥
( वेत्तेरन्तो वा रुडाति ) संविद्रते - संविदते ॥ संपश्यते । समदृष्ट ॥ समियते, समियते । समारे । ऋमो रिः पूर्वस्य । समिश्रीत । समिग्ररीयाताम् । स्वरादेः । अइ ए । ए ऐ ऐ समैयृत, समैयाताम् । अकर्मकात्किम् । ग्रामं संगच्छति ॥
( सुबोधिनी ) - वेत्तेरन्तो वा रुट् । विदेः परस्यान्प्रत्ययस्य रुड वा स्यात् आति ॥ दृशादेरिति पश्यः । संपश्यते । कथं तार्ह स र्मकस्य ' रक्षांसीति पुरापि संशृणुमहे' इति मुरारिप्रयोगः ? प्रामादिकोऽयम्, इति कथयद्भय इत्यध्याहारोवा | अथास्मिन्नकर्मकाधिकारे हनिगम्यादीनां कथमकर्मकतेति चेच्छृणु । “धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसंग्रहात् । प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया” इत्युक्तत्वादकर्मकत्वं बोध्यम् ॥
(उपसर्गादस्यत्यू होर्वा ) निरस्यते । निरस्यति निरास्यत ॥ समूहति समूहते । समूह्यात् ॥
(सुबोधिनी) - उपसर्गादस्यत्यूहोर्वा ॥ अकर्मका देति निवृत्तम् । असु क्षेपणे । ऊह वितकें । बन्धं निरस्यति । दिवादित्वाद्यः ॥ उपसर्गीदूहतेह्रस्वो यादौ क्ङिति । ब्रह्म समुह्यात् । अनि समुह्यति ॥
I
(निसमुपविभ्यो हः ) निह्वयते ॥