________________
आख्याते पदव्यवस्था • 1
टीकाद्वयोपेता ।
( १८३ )
(सुबोधिनी) - निसमुपविभ्यो हः॥ एभ्यः परस्मात् ह्वेञ आत् स्यात् ॥ (स्पर्द्धायामाङः ) कृष्णश्चाणूरमाह्वयते ॥
(सुबोधिनी ) - स्पर्द्धायामाङः ॥ आङः परात् ह्वेञः आत्स्यात् ॥ पराभिभवेच्छा स्पर्धा तस्यामर्थे ॥
(तत्त्वदी ० ) - स्पर्धायामिति । परा भेभवेच्छा स्पर्धा कृष्ण इति ॥ स्पर्धयातस्याह्वानंकरोतीत्यर्थः।। (अप्रतिबधोत्साहस्फीततासु क्रमः ) ऋचि क्रमते बुद्धिः । अध्ययनाय क्रमते । क्रमन्तेऽस्मिञ्छास्त्राणि ॥
( सुबोधिनी ) - अप्रतिबन्धोत्साहस्फीततासु क्रमः॥ऋचि क्रमते बुद्धिः । न प्रतिहन्यत इत्यर्थः । अध्ययनाय क्रमते । उत्सहत इत्यर्थः ॥ क्रमन्तेऽस्मिञ्छास्त्राणि । स्फीतानि प्रवृद्धानि भवन्तीत्यर्थः ॥
( तत्त्वदी ० ) ऋचि क्रमत इति । । न प्रतिहन्यत इत्यर्थः ॥ अध्ययनाय क्रमत इति ॥ उत्सहत इत्यर्थः ॥ क्रमन्त इति स्प तानि भवन्तीत्यर्थः ॥
( उपपराभ्याम् ) उपक्रमते । पराक्रमते ॥
(सुबोधिनी) - उपपराभ्याम्॥अप्रतिवन्धादिषु वाच्येष्वाभ्यां क्रम आत्स्यात् ॥ नेह संक्रामति ॥
(आङो ज्योतिरुद्गमनं) आक्रमते - आक्रम्यते सूर्यः ॥
( सुबोधिनी ) - आङो ज्यं तिरुद्गमने ॥ आक्रमते सूर्यः । उदयत इत्यर्थः नेह । आक्रमति धूमो हर्म्यतला ( ॥
(तत्त्वी० ) - ज्योतिरुद्गमन इति । ज्योतिर्नक्षत्रादिः ॥ आक्रमते सूर्य इति ॥ उदयत इत्यर्थः । 'नभः समाक्रामति च द्रमाः क्रमात्' इत्यत्र तु प्राप्नोतीत्येवार्थो न तूद्गमनम् ॥ ( वेः पादविहरणे ) साधु विक्रमते वाजी ॥
(सुबोधिनी) -- वेः पादविहरणे ॥ क्रमेः पादविक्षेप एवार्थस्तथापि धातूनामनेकार्थत्वादेवमुक्तम्॥पादविहरणे ! म् । विक्रामति सन्धिः । द्विधा भवति स्फुटतीत्यर्थः ॥ ( तत्त्वदी ० ) -- वेः। विहरणं विक्षेपणम् । यद्यपि धातुरयमस्मिन्नेवार्थे प्रसिद्धस्तथापि धातूंनामनेकार्थत्वाद्विशेषणम् । नेह । विक्रानति सन्धिः । द्विधा भवतीत्यर्थः ॥
(प्रोपाभ्यां प्रारम्भाभ्याम् ) प्रक्रमते । उपक्रमते (स्नुक्रमोराति नेट् ) प्रसीष्ट ॥
(सुबोधिनी) - प्रोपाभ्यां प्रारम्भार्थाभ्याम् ॥ प्रक्रमते । आरम्भं करोतीत्यर्थः । प्रारम्भार्थाभ्यां किम् । प्रक्रामति । गच्छतीत्यर्थः । उपक्रामत्यागच्छतीत्यर्थः । उपपराभ्यामिति नात्रात्मनेपदं शयम् । अप्रतिबन्धादिष्वेवेत्युक्तत्वात् ॥