________________
'आख्याते पदव्यवस्था •
(१८४ )
सिद्धान्तचन्द्रिका |
( अनुपसर्गाद्वा ) क्रमते - क्रम्यते । क्राम्यतिक्रामति ॥ (सुबोधिनी) अनुपसर्गाद्वा ॥ अप्राप्तविभाषेयम् । अप्रतिबन्धादिषु तु नित्यमेव ॥ ( अपह्नवे ज्ञः ) शतमपजानीते ॥
1
(सुबोधिनी ) - अपह्नवे ज्ञः ॥ अपनयनेऽर्थ ज्ञ आ 11 तत्त्वदी० ) - शतमपजानीते || अपलपतीत्यर्थः ॥ ( अकर्मकाच्च) सर्पिषो जानते ॥
(सुबोधिनी) - अकर्मकाच्च ॥ सर्पिषो जानीते । सर्पिषोपायेन प्रवर्तत इत्यर्थः ॥ ( तत्त्वदी ० ) - सर्पिष इति ॥ सर्पिषा उपायेन प्रवर्तत इत्यर्थः ॥ ( अनुपसर्गाज्ज्ञः ) गां जानीते ॥
(सुबोधिनी) - अनुपसर्गाज्ज्ञः ॥ अकर्मकाञ्चेत्येव सिद्धे सकर्मकार्यमात्म्भः ॥ अनुपसर्गात् किम् । स्वर्ग लोकं न प्रतिजानाति । कथं तर्हि इत्थं नृपः पूर्वमवालुलोचे तो गमनं सुतस्य' इति भट्टिः । कर्मणि लिट् । नृपेणेति विपरिणामः ॥ सम्प्रतिभ्यामनाध्याने ) शतं संजानीते । शतं प्रतिजानीते । अनाध्याने किम् । मातरं संजानाति ॥
(
(सुबोधिनी ) - सम्प्रतिभ्यामनाध्याने ॥ उत्कण्ठापूर्वकं स्मरणमाध्यानम् ॥ शतं संजानीते । अवेक्षत इत्यर्थः ॥ शतं प्रतिजानीते । अङ्गीकरोतीत्यर्थः ॥ (तत्त्वदी ० ) - शतं संजानीते ॥ अवेक्षत इत्यर्थः ॥ शतं प्रतिजानीते।। अङ्गीकरोतीत्यर्थः॥ ( अनुपसर्गाद्वा ) गां जानाति, जानीते वा ॥
( सुबोधिनी) अनुपसर्गाद्वा ॥ अनुपसर्गात्परस्य ज्ञो वा आत्स्यात् ॥ ( वेः शब्दकर्मणः कृञः ) शब्द विकुरुते ॥
( सुबोधिनी ) - वेः शब्दकर्मणः कृञः ॥ शब्दं विकुरुते । उच्चारयतीत्यर्थः ॥ शब्दकर्मणः किम् । चित्तं विकरोति कामः ॥
( अकर्मकाच्च ) विकुर्वते सैन्धवाः ॥
(सुबोधिनी) - अकर्मकाञ्च ॥ वेरकर्मकात्कृञ आत्स्यात् ॥ विकुर्वते सैन्धवाः । वाजिनो विकारं लभन्त इत्यर्थः ॥
(भासनोपसंभाषाज्ञानयत्नविमत्युपमन्त्रणेषु
वदः) शास्त्रे वदते । भृत्यानुपवदते । शास्त्रे वदते । क्षेत्रे वदते । गेहे विवदन्ते । उपवदन्ते ब्राह्मणाः परदारान् ॥
* (सुबोधिनी) - भासनोपसंभाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः ॥ वदतेरात्स्यादेष्वर्थेषु ॥ शास्त्रे वदते । भासमानो ब्रवीतीत्यर्थः ॥ उपसंभाषोपसान्त्वनम् ।