________________
[आख्याते पदव्यवस्था० ] टीकाद्वयोपेता।
(१८५) भृत्यानुपवदते । सान्त्वयतीत्यर्थः ॥ शास्त्रे वदते । ज्ञानं वदतीत्यर्थः ॥ क्षेत्रे वदते । क्षेत्रप्रयत्नं वदतीत्यर्थः ॥ गेहे विवदन्त विवादं कुर्वन्तीत्यर्थः । उपवदन्ते । प्रार्थयन्ते । उपमन्नणनुपच्छन्दनम् ॥ एषु किम् । किंचिद्वदति ॥
( तत्वदी० )-भासनेत्यादि । भासनं दीप्तिः । उपसंभाषा सान्वनम् ॥ शास्त्रे वदत इति ॥ भासमानो ब्रवीतीत्यथः ॥ भृत्यानिति ॥ सान्त्वयतीत्यर्थः ॥ शास्त्रे वदत इति ॥ वदितुं सम्यगबुध्यत इत्यर्थः ॥ क्षेत्रे वदत इति ॥ क्षेत्रविषयकमुत्साहपाविष्करोतीत्यर्थः ॥ गेहे विवदन्त इति ॥ विविधं भाषन्त इत्यर्थः ॥ परदारातुपवदत इति ॥ भद्रे भजस्व मामिदं ते दास्यामीत्येवं रहसि प्रचोद्य स्वाभिलषिते प्रवर्तयतीत्यर्थः ॥
(मनुष्यादीनां संभूयोचारणे )संप्रवदन्ते ब्राह्मणाः॥ ___ (सुबोधिनी)-मनुष्यादीनां संभूयोञ्चारणे ॥ वदतेरात्स्यान्मनुष्यादीनां सहोच्चारणेऽर्थे ॥ (तत्त्वदी० )-संभूयोच्चारणे ॥ सहोचारण इत्यर्थः । (व्यक्तवाविषयादनुपूर्वादकर्मकात्) अनुवदते कठः कलापस्य । (सुबोधिनी)-व्यक्तवाग्विषयादनुपूर्वादकर्मकात्॥ एतादृशाददतेरात्स्यात्।। व्यक्तः वाग्विषयो यस्य स व्यक्तवाग्विषयस्तस्मात् । अनुवदते कठः कलापस्य । वेदशाखावाचकावपि कठकलापशब्दावत्र तदध्येतरि वर्तते । अनु सादृश्यम्। कलापस्येति संबन्धे षष्ठी ॥ अकर्मकात् किम् । उक्तमनुवदति ॥ व्यकवागिति किम् । अनुवदति वीणा ॥
(तत्त्वदी० )-व्यक्तेति ॥ व्यक्ता परिस्फुटवर्णा अर्थावगतिहेतुश्च वाक् येषां ते व्यक्तवाचः । ते च यद्यपि शुका अपि तथापि मनुष्या एवात्र बोध्याः प्रसिद्धतरत्वात् । अत एव ह्येतदुपात्तम् । अन्यथा वदेः स्वभावादेव तदर्थकत्वात्कृतमनेन ॥ अतुवदत इत्यादि ॥ शाखावचनावपि कठकलापशब्दौ तदध्येतरि वर्तेते । कलापेन सदृशं कठोऽधीयानो वदतीत्यर्थः ॥ अकर्मकात्किम् । उक्तमनुवदति ॥ व्यक्तवाचां किम् । अनुवदति वीणा ॥ . .
(वा विरुद्धोक्तौ ) विप्रवदन्ति विप्रवदन्ते वा वैद्याः॥ ( सुबोधिनी)-वा विरुद्धोक्तौ ॥ विरुद्धोक्तिरूपे व्यक्तवाचां समुच्चारणेऽर्थे वदेर्वात् ॥ अप्राप्तविभाषेयम् ॥ .. (तत्त्वदी०)-विप्रवदन्तीत्यादि ॥ युगपत्परस्परं विरुद्धं वदन्तीत्यर्थः ॥ . (अवाद्विरतेः) अवगिरते ॥ - (सुबोधिनी )-अवाद्गिरतेः॥ गिरतेरिति तौदादिकस्यैव ग्रहणम् । गृणातेरवपूर्वस्य प्रयोगो नास्तीति भाष्योक्तेः ॥