________________
( १८६ )
सिद्धान्तचन्द्रिका |
( तत्त्वदी ० ) - अवादिति ॥ गिरतेरिति निर्देशात्तौदा दिकस्यैव ग्रहणम् । गृणातेस्त्ववपूर्वस्य प्रयोगो नास्तीति भाष्योक्तेः क्रयादिकस्याग्रहः । अतो गिर इत्युक्तावप्यदोषः ॥ ( समः प्रतिज्ञाने ) शब्द नित्यं संगिरते ।।
(सुबोधिनी ) - समः प्रतिज्ञाने ॥ समो गिरतेराज्यात्प्रतिज्ञानेऽर्थे ॥ संगिरते । प्रतिजानीत इत्यर्थः ॥ प्रतिज्ञाने किम् । संगिरति ग्रासम् ॥
[ आख्याते पदव्यवस्था ०
( तत्त्वदी ० ) संगिरत इति ॥ प्रतिजानीत इत्यर्थः । ( उदश्वरः सकर्मकात् ) धर्ममुच्चरते ॥
( सुबोधिनी ) - उदश्वरः सकर्मकात् ॥ धर्ममुच्चरते । उल्लङ्ध्य गच्छतीत्यर्थः ॥ सकर्मकात्किम् । बाष्पमुञ्चति । उपरिष्टाद्गच्छतीत्यर्थः ॥
(तत्त्वदी०) धर्ममुच्चरत इति ॥ उल्लङ्घ्य गच्छत्यर्थः ॥ (समस्तृतीयायुक्तात् ) रथेन संचरते ॥
]
( सुबोधिनी ) - समस्तृतीयायुक्तात्॥ तृतीयान्तः क्तात्समश्व रेरात्स्यात् ॥ रथेन संचरते । व्यवधानेऽपि रथेन समुच्चरते ॥
( दाणश्च सा चेच्चतुर्थ्यर्थे ) दास्या संयच्छते कामुकः ॥
( सुबोधिनी ) - दाणश्च सा चेच्चतुर्थ्यर्थे ॥ तृतीयान्तयुक्तात्समो यच्छतेरात्स्यात् सा तृतीया चेच्चतुर्थ्यर्थे भवति || दास्या संयच्छते । दास्यै धनं ददातीत्यर्थः । दास्येति संप्रदाने तृतीया ॥
(तत्त्वदी० ) -- दास्येत्यादि ॥ कामितया दास्य ददातीत्य: ॥ (उपाद्यमः स्वीकारे) भार्यामुपयच्छते ।
(सुबोधिनी) - उपाद्यमः स्वीकारे ॥ उपाद्यमेरात्स्यात् स्वीकारो विवाहस्तस्मिन्नर्थे ॥ (तत्त्वदी० ) -- स्वीकार इति ॥ स्वीकारो विवाहः । अङ्गीकारमात्रमिति तु भाष्यम् ॥ ( यमः सिः किद्वा विवाहे ) रामः सीतामुपायत - उपायंस्त वा ।। ( सुबोधिनी ) - यमः सिः किद्वा विवाहे ॥ यमः परः सिप्रत्ययो वा कित्स्याद्विवाहेऽर्थे । लोपस्त्वनुदात्ततनामिति मलोपः । उदायत | पक्षे उदायंस्त ॥ (ज्ञाश्रुस्मृदृशां सान्तानामात् ) जिज्ञा ते । शुश्रूषते । सुस्मृर्षते । दिदृक्षते ॥
( सुबोधिनी ) - ज्ञाश्रुस्मृदृशां सान्तानामात् ॥ सप्रत्ययान्तेभ्य एभ्य आत्स्यात् ॥ अपह्नवे ज्ञ इत्यादिना ज्ञाधातोः समो गम्यृच्छीत्यनेन दृशिभ्यां चात्मनेपदे कृते ततः सप्रत्यये सान्तात्पूर्ववदादित्यनेन तदात्मनेपदं सिद्धमेव । पुनर्ग्रहणं विषयान्तरेऽप्यात्मनेपदार्थम् ॥