________________
[ आख्याते पदव्यवस्था० ]
टीकाद्वयोपेता ।
( अनोजनातर्न ) अनुजिज्ञासति पुत्रम् ॥ (सुबोधिनी) - अनोर्जानातेर्न ॥ अनोः सान्ताज्जानातेर्नात्स्यात् ॥ (प्रत्याङ्भ्यां श्रुवः ) प्रतिशुश्रूषात । आशुश्रूषति ॥ ( सुबोधिनी ) - प्रत्याभ्यां श्रुवः ॥ आभ्यां सान्ताच्छृणीतेर्नात् ॥ (स्वराद्यन्तोपसर्गाद्युजेरयज्ञे) प्रयुङ्क्ते । उद्युङ्क्ते ॥ अपज्ञे किम् । पात्राणि प्रयुनक्ति ॥
( १८७)
(सुबोधिनी ) - स्वराद्यन्तोपसर्गाद्युजेरयज्ञे || स्वरादेः स्वरान्ताच्चोपसगाजेत् । न तु यज्ञपात्रेऽर्थे ॥
(तत्त्वदी ० ) - स्वराद्यन्तोपसर्गादिति ॥ स्वर आदिरन्तोऽवयवो यस्य स तथा । तेन समादयो व्यावृत्ताः ॥
(समः क्ष्णुवः ) संक्ष्णुते शस्त्रम् ॥
(सुबोधिनी ) - समः क्ष्णुवः ॥ समः क्ष्णोतेरात्स्यात् ॥
(तत्त्वदी ० ) --संक्ष्णुते शस्त्रमिति ॥ समो गम्यृच्छीत्यादौ न पटितः । अस्यात्र सकर्मकस्य ग्रहणात् ॥
(भुजोऽपालने) ओदनं भुङ्क्त । पालने महीं भुनक्ति ॥
(सुबोधिनी) -- भुजोऽपालने | अभ्यवहारे इति वक्तव्ये अपालन इति पर्युदासग्रहणं प्रयोजनद्वयार्थम् । संयोगवद्विप्रयोगस्यापि विशेषावधारणहेतुत्वाद्रौ धादिकस्यैव भुजेग्रहणमित्येकम् । अभ्यवहारादर्थान्तरे उपभोगादावप्यात्मनेपदं भवतीति द्वितीयम् । निषेधस्य निषेधः पर्युदासः ॥ भुजेरान्न स्यात्पालने अपालनत्वादुपभोगार्थे तु भवति । 'वृद्धो जनो दुःखशतानि भुङ्क्ते' इतीह भुजेरुपभोगोऽर्थः । उपभोग इत्युपलक्षणम् । तेन 'बुभुजे पृथिवीपालः पृथिवीमेव केवलाम्' इत्यत्रात्मसात्करणमर्थः । पृथिवी बुभुजे । स्वाधीनां चकारेत्यर्थः । 'भुजो कौटिल्ये' इति तुदादेस्तु पमेव । पाणि विभुजति ॥ अपालने किम् । महीं भुनक्ति ॥
( तत्त्वदी ० ) - भुजोऽपालन इति ॥ रुधादेरेव ग्रहणम् । तौदादिकस्य अनवन इति प्रतिषेवात् । तेन विभुजति पाणिमित्यादावदोषः । 'बुभुजे पृथिवीपालः' इत्यादौ तु भुजेरुपभोगोऽर्थः । अन्यथा भुजो भक्षण इत्येवाकरिष्यत् ॥
(गृधिवञ्चिभ्यां
यन्ताभ्यां प्रतारणे ) माणवकं वञ्चयते ।
गर्द्धयते ॥
(सुबोधिनी ) - गृधिवश्चिभ्यां ञ्यन्ताभ्यां प्रतारणे ॥ परगामि फलार्थमिदमात्मनेपदम् ॥ प्रतारणे किम् । श्वानं गर्द्धयति । अस्याभिकाङ्क्षामुत्पादयति । अहं वञ्चयति । वर्जयतीत्यर्थः ॥