________________
( १८८ )
सिद्धान्तचन्द्रिका |
आख्याते पदव्यवस्था ० ]
( अपाइदः ) न्यायमुपवदते ॥ ( समुदायो यमोऽग्रन्थे ) ब्रीहीन संयच्छते । धान्यानि स्वीकरोतीत्यर्थः । धारमुद्यच्छते ॥ भारं वहतीत्यर्थः ॥ वस्त्रमायच्छते । वस्त्रमादधातीत्यर्थः ॥ अग्रन्थे किम् । वेदमुद्यच्छति । अधिगन्तुमुद्यमं करोतीत्यर्थः ॥
(सुबोधिनी) -- अपाद्वदः || अपादरात्स्यात् । अनुपसर्गाज्ज्ञः । पूर्वं व्याख्यातम् ॥
(कर्मव्यतिहारे धातोरात ) व्यतिभवते । तिराते ॥
( सुबोधिनी ) - कर्मव्यतिहारे धातोरात् ॥ क्रिया निमयेऽर्थे धातोः कर्तर्यामनेपदं स्यात् ॥ व्यतिभवते । अन्यस्य योग्यं भवनम् व्यतरः करोतीत्यर्थः ॥ रा दाने । व्यतिराते ॥
( तत्त्वदी ० ) - कर्मव्यतिहारे धातोरिति ॥ कर्म किया तस्प व्यतिहारो विनिमयो व्यत्यासस्तस्मिन्नर्थे वर्तमानाद्वातोरादित्यर्थः ॥ व्यतिभवत इति ॥ अन्यस्य योग्यं भवनमन्यतरः करोतीत्यर्थः । परस्परकरणमपि कर्मव्यतिहारः । संप्रहरन्ते राजान इति यथा 1 अत्र “च यदानेकस्य कर्तृत्वे सहविवक्षा तदा द्विवचनं च भवति । सह वेवक्षाभावे त्वेकवचनमपि । - तेन कर्मव्यतिहारस्यानेककर्तृकत्वादेकवचनं न संभवतीति न शङ्कनीम् ॥
( न गतिहिंसार्थपठजल्पहसात् ) व्यतिगच्छन्ति । व्यतिपठन्ति । व्यतिघ्नन्ति । व्यतिजल्पन्ति । व्यतिहसन्ति ॥
( इतरेतरान्योन्यपरस्परोपपदाच्च )
इतरस्याऽन्योऽन्यस्य
परस्परस्य वा व्यतिलुनन्ति । इत्यात्मनेपदम् ॥
( सुबोधिनी ) - न गतिहिंसार्थपठजल्पहसात् ॥ इतरेतरान्योन्यपरस्परोपपदाच्च ॥ गतिहिंसार्थेभ्यः पठजल्पहसेभ्यः इतरेतरान्योन्यपरस्परोपपदेभ्यश्व धातुभ्यः आन्न स्यात् ॥ इति सुबोधिन्यामात्मनेपदम् ॥
( अनुपराभ्यां कृञः पम् ) अनुकरोति । पराकरोति ॥ (सुबोधिनी) - अनुपराभ्यां कृञः पम् ॥ आत्मगा मिफले परस्मैपदार्थमिदम् ॥ ( अभिप्रत्यतिभ्यः क्षिपः पम्) अभिक्षिपन्ति । प्रतिक्षिपन्ति । अतिक्षिपन्ति ॥
( सुबोधिनी ) - अभिप्रत्यतिभ्यः क्षिपः ॥ क्षिप रणे । स्वरितेत् । तस्यात्म- गामिफलेऽपि परस्मैपदार्थमिदम् ॥ ( प्राद्वहः ) प्रवहन्ति ॥
(सुबोधिनी ) - हः ॥ प्राद्वहतेः पं स्यात् ॥