________________
[.आख्याते भावकर्मप्र० ] टीकाद्वयोपेता।
(१८९) (परेपश्च) परिमृष्यति । परिवहति ॥ इति परस्मैपदम् ॥ इति पदव्यवस्थाप्रक्रिया ॥
(सुबोधिनी)-परेम॒षश्च॥परेम॒षेः पं स्यात् ॥ स्वरितेत्त्वात्परेम॒षेः पदद्वये प्राप्ते आरम्भः । मृष आमपणे दिवादिः । परिमृष्यात । मृष तितिक्षायां चुरादिः॥ओरभावे परिमर्षति । चकाराव्हेरपि पं भवति । परिवहति ॥ व्यापर्युपेभ्यो रमः ॥ भ्वादौ व्याख्यातमिदम् ॥ अकमकाद्वा॥अकर्मकाद्रमतेर्वा पं स्यात् ॥ उपादित्येव। उपरमति। उपरमते वा । निवर्तते इत्यर्थः ॥ बुधयुधनशजनेङमुद्रुस्रुभ्यो ज्यन्तेभ्यः पम् ॥ इङ्क्रीजीनामित्यात्वे । अध्यापयति । पाठयतीत्यर्थः ॥ द्रावयात । विलापयतीत्यर्थः। स्रावयति । स्पन्दयतीत्यर्थः ॥ इति सुबोधिन्यां पदव्यवस्थाप्रक्रिया ॥ (तत्त्वदी०) कृतायामिह टीकायां लोकेशकरशर्मणा । पदव्यवस्थेयमगात्समाप्तिं शुभलक्षणा ॥
इति तत्त्वदीपिकायां पदव्यवस्थाप्रक्रिया ॥ ७ ॥
अथ भावकर्मप्रक्रिया। (यक्चतुर्ष) धातो वे कर्मणि च यक्प्रत्ययस्तिबादिषु चतुर्पु परतः।। . ( सुबोधिनी)-अथ भावकर्मणोलडादयः॥ यक् चतुषु।भुवि कर्मणीति चा वी. त्यतोऽनुवृत्तम् । अव्यवहितमपि कर्तरीति नानुवर्तते । उत्तरसूत्रे कर्तृग्रहणात् । आख्यातप्रकरणादादितश्चतुर्विधेष्वाख्यातेषु चतुर्शब्दोऽस्ति । तेन भावार्थकेषु कर्मार्थकषु च चतुर्पु परतो धातोर्यक स्यात् ॥
(आदवि कर्मणि) अकर्मकाद्भावे सकर्मकाच्च कर्मण्याद्भवति ॥ भावस्यैकत्वादेकवचनमेव । युष्मदस्मदोः सामानाधिकरण्याभावात्प्रथमः । नामाद्यविषयत्वेऽपि प्रथमातिक्रमे कारणाभावात्प्रथमः । भूयते । भूयताम् । अभूयत । भूयेत । बभूवे ॥
(सुबोधिनी)-आद्भुवि कर्मणि॥भवनं भूः । संपदादित्वाद्भावे क्विम् । तस्यां भुवि शुद्ध धात्वर्थे साध्यरूपे स्वार्थे इति फलितम् । घार्थो भावस्तु सिद्धरूपः । उक्तं च "क्रियायाः सिद्धतावस्था साध्यावस्था च कीर्तिता।सिद्धतां द्रव्यमिच्छन्ति तत्रैवेच्छन्ति घञ्चिधिम्" भावो भावना उत्पादना क्रिया । सा च, धातुत्वेन सकलधातुवाच्या वर्तते । उक्तं च-'व्यापारो भावना सैवोत्पादना सैव च क्रिया ।' इति उत्पत्त्यनुकूलो व्यापार इत्यर्थः । तत्र सिद्धरूपो भावो घबादिवाच्यः। तस्य तु सत्त्वरूपत्वमिष्टमेवेति । उक्तं च भाष्यकृता-"कृदभिहितो भावो द्रव्यवत् प्रकाशते" इति। द्रव्यधामन् लिङ्गसंख्याकारकादीगृहातीत्यर्थः । लिङ्गसंख्याकारकान्वितं द्रव्यामित्युक्तेः।