________________
( १९० )
सिद्धान्तचन्द्रिका |
[ आख्याते भावकर्मप्र ० ]
तेन पार्क पाकेनेत्यादौ द्वितीयादयः प्रवर्तन्ते । साध्यरूपो भावस्त्वाख्यातवाच्यस्तस्यासत्त्वरूपत्वेन द्वित्वाद्यप्रतीतेर्न द्विवचनादि । भाष्ये तु आस्यन्ते शय्यन्ते इत्यत्र भावेऽपि बहुवचनं कृतम् । न च कर्मण्येवाख्यात प्रत्ययोऽस्त्विति शङ्खयम् । धातुद्वयस्याप्यकर्म`कत्वात् । आस्यन्त इत्यासिकाः। शय्यन्ते इति शायिका इत्यत्र धात्वर्थनिर्देशे वुण्प्रत्ययः । उष्ट्रासिका आस्यन्ते, हतशायिकाः शय्यन्ते इत्यत्र ह्युष्ट्राणां यादृशान्यासनानि हतानां यादृशानि शयनानि तादृशानि देवदत्तादिकर्तृकाण्यासनादीनीत्यर्थः । फलाश्रयः कर्म । फलं च धातुनैवोक्तमित्याश्रयमाख्यातार्थः स्यात् । अनन्यलभ्यत्वात् । 'अकर्मकेभ्यो धातुभ्यो भावे आत् । सकर्मकेभ्यस्तु कर्मण्यात् स्यात् । साध्यरूपस्वभावस्योत्सर्गत एव संख्यानपेक्षत्वेन स्वस्यैकत्वादेकवचनमेव भवति । तत्तु प्रथमस्यैव न मध्यमोत्तमयोः । युष्मदस्मदोराख्यातवाच्यकारकवाचित्वाभावात् । यद्यपि नाम्नोऽप्याख्यातवाच्यकारकवाचित्वाभावस्तथापि प्रथमो भवति । तस्यानिष्पादने वचना| तंत्रकवचनस्वीकारः प्रथमपुरुषमन्तरा कथं संभवेदित्यर्थः । भावे यथा - भूयत
भावात् । इत्यादि ॥
( तत्त्वदी०) - अद्भुवि कर्मणि ॥ भवनं भूः तस्यां भुवि । शुद्धे धात्वर्थे साध्यरूपभावो घञर्थस्तु सिद्धरूपो भाव इति भेदः । तत्र सिद्धरूपो भावो द्रव्यवत्प्रकाशते लिङ्गसंख्यादीन्गृह्णातीत्यर्थः । अतो द्विवचनादि । साध्यरूपस्य त्वसवरूपत्वान्न संख्याद्यन्वयः । उक्तं च - "क्रियायाः सिद्धतावस्था साध्यावस्था च कीर्तिता । सिद्धतां द्रव्यमिच्छन्ति तत्रैवेच्छन्ति घञ्विधिम् ||" इति ॥ कर्म तु पारिभा षिकमेव । पुनर्भावग्रहणात् । फलाश्रयः कर्म । फलस्य च धातुवाच्यत्वादाश्रयमात्रमाख्यातार्थः । अथ सकर्मकादपि भावे स्यादिति चेन्न । द्विवेत्यतश्चेत्यनुवर्तते स चावधारणार्थः । सकर्मकात्कर्मण्येव न भावे । कर्तर्यपि न स्यादिति चेच्छृणु । मध्येऽपवादन्यायेन भावस्यैव बाधनात् ॥ एकवचनमिति ॥ एकवचनमुत्सर्गतः करिष्यत इति वचनादिति भावः । तत्किं मध्यमोत्तमरपि न चेत्याशङ्कायामाह - युष्मदस्मदोरिति ॥
(स्वरान्तानां हनग्रहदृशां च भावकर्मणोः सितासीस्यपामिडास इण्वच्च) भाविषीष्ट-भविषीष्ट । भाविता - भविता । भाविष्यते भविष्यते । अभाविष्यत् अभविष्यत् ॥
(सुबोधिनी) - स्वरान्तानां हनग्रहदृशां च भावकर्मणोः सितासस्यपामिड्डा स इण्वच्च॥ स्वरान्तेभ्यो हनिग्रहिदृशिभ्यश्च परेषां भावे कर्मणि चार्थे स्थितानां सितासीस्थपां प्रत्ययानामिडागमो वा भवति स इट् इणीवेतीण्वत् । सप्तम्यन्ताद्वत् । कार्यातिदेशोऽयम् । इणि परे यद्दृद्धयादिकार्यं भवति तदिण्वति परेऽपीत्यर्थः । यया भाविता, भाविष्यते इत्यादौ वृद्धिः । दायिता, दायिष्यते इत्यादौ युक् । घानिता, घानिष्यते इत्यादी घत्वम् । प्रयोजकञ्यन्ताच्छमः कर्मण्याख्याते कृते शामिता