________________
[ आख्याते भावकर्मप्र० ] टीकाद्वयोपेता ।
(१९१) शमिता । शामिष्यते-शमिप्यते । इत्यादौ मितां ज्यन्तानामित्यनेन मितामुपधाया वा दीर्घ इत्यादि ॥
इण तन्यकर्तरि ॥ धातोस्तनि परे भावे कर्मणि च इणप्रत्ययः । सेरपवादः । लुक् । अभावि । अकर्मकोऽप्युपसर्गवशात्सकर्मको भवति मुखमनुभूयते स्वामिना । "लज्जासत्तास्थितिजागरणं वृद्धिक्षयभयजीवितमरणम् । शयनक्रीडारुचिदीप्त्यर्थं धातुगणं तमकर्मकमाहुः॥" "फलव्यापारयोरेकनिष्ठतायामकर्मकः। धातुस्तयोर्धार्मभेदे सकर्मक उदाहृतः॥""धातोरान्तरे वृत्तेर्धात्वर्थेनोपसंग्रहात् । प्रसिद्धेरविवक्षातः कर्मणोऽमिका क्रिया ॥" __ (सुबोधिनी)-इण तन्यकर्तरि ॥ कर्तुरन्योऽकर्ता तस्मिन्नकर्तरि भावे कर्मणि चार्ये तन्प्रत्यये परे धातोरिण् स्यात् ॥ अकर्तरीति किम् । अकृत घट कुलालः । टुगिति तनो लुक। अभावि । अकर्मकोऽपि धातुः कुत्रचिदर्थान्तरे सकर्मको भवति। धातूनामनेकार्थत्वेनार्थान्तरस्योपसर्गेण यातनाद्धेतोः। यथा कर्मण्यात् । स्वामिना सुखमनुभयते । आत्मसात् क्रियते इत्यर्थः॥ "लज्जासत्तास्थितिजागरणं वृद्धिक्षयभयजीवितमरणम्।शयनक्रीडारुचिदीप्त्यर्थं धातुगणं तमकर्मकमाहुः॥"अकर्मकधातुलक्षणमाह-आचार्यास्तं धातुगणमकर्मकमाहुब्रुवन्ति । तं कम् । लज्जासत्तास्थितिजागरणान्याः सन्ति यस्य स लज्जासत्तास्थितिजागरणस्तम् । पुनः।वृद्धिक्षयभयजीवितमरणान्याः सन्ति यस्य स वृद्धिक्षयभयजीवितमरणस्तम् । पुनः। शयनक्रीडासाचदीप्तयोऽर्था यस्य स शयनक्रीडारुचिदीप्त्यर्थस्तम् ॥ फलव्यापारयोरेकनिष्ठतायामकमकः । धातुस्तयोर्द्धर्मिभेदे सकर्मक उदाहृतः ॥ सकर्मकाकर्मकधातुलक्षणमाहआचार्यैरकर्मको धातुरुदाहृतः । क सत्याम् । उत्पत्त्यनुकूलो व्यापारो धात्वर्थः। तत्रोत्पादनं व्यापारः। उत्पत्तिः फलम् । यथा पचेः फूत्करणेधोदकापस्करणादिलक्षणा व्यापारः। विक्लित्त्यादि फलम् । तयोः फलव्यापारयोरेकनिष्ठतायामेकस्मिन्धर्मिण्याश्रये स्थिती सत्यामित्यर्थः। धातुः सकर्मक उदाहृतः। छ. सति । तयोः फलव्यापारयोर्मिभेदे आश्रय दे सति । एकस्मिन्धर्मिणि फलमन्यस्मिन्धर्मिणि व्यापार इत्यर्थः ॥ " धातोरर्थान्तरे वृत्तेीत्वर्थनापसंग्रहात्। प्रसिद्धरविवक्षातः कर्मणोऽकर्मिका क्रिया कुत्रचित्सकर्मकस्थापि धातोः क्रिया धात्वर्थोऽमिका कर्मरहिता भवतीत्यर्थः । कुतः।। अन्याऽर्थ इत्यर्थान्तरं तस्मिन्नर्थान्तरे वृत्तेर्वर्तनाद्धेतोः । यथा नदी वहति । स्यन्दते इत्यर्थः ॥ पुनर्धात्वर्थन कर्मण उपसंग्रहाद्धेतोः । जीवति प्राणान बिभर्तीत्यर्थः ।। धुनः कर्मणः प्रसिद्धेहेतोः । मेघो वर्षति जलमिति कर्म प्रसिद्धमेव ! पुनः कर्मणोविं वक्षातो वक्तुरिच्छाया अभावाद्धेतोः । यथा। ‘हितान्न यः संशृणुते स किंप्रभुः ॥ कुत्सितप्रभुरित्यर्थः ॥ वचनमिति कर्माविवक्षितमत्र ॥