________________
(१९२)
सिद्धान्तचन्द्रिका। [आख्याते भावकर्मप्र०) (तत्त्वदी०)-अकर्मकोऽपीति ॥ यो यदा कर्मक्रियावाच्यप्यनेकार्थत्वात्सकर्मक क्रियमुत्थापयति,तदा तदर्थपरत्वे सकर्मको भवति तत्परत्वं च तस्योपसर्गेण द्योत्यत इत्यनुपसर्गवशादित्युक्तं न तु सोपसर्ग एव सकर्मकः । उपसर्गस्तु द्योतक एव ॥अनुभूयत इति ॥ उपलम्भेऽयं सकर्मकः । सुखे कर्मण्यात् ॥ फलव्यापारयोरिल्यादि ॥ फलं विक्लित्त्यादि । व्यापारः फूत्कारादिलक्षणः । एकनिष्ठतायामेकस्मिन्धर्मिणि स्थितौ । तयोः फलव्यापारयोर्धर्मिभेदे एकस्मिन्धर्मिणि फलमन्यस्मिन्व्यापार इति भेदे धातुः सकर्मको बोध्यः ॥ धातारान्तरे वृत्तेरिस्यादि । अन्योऽर्थोऽर्थान्तरं तस्मिन्वृत्तेर्वर्तनात् । उदाहरणानि यथा । नदी वहति । स्यन्दन्त इत्यर्थः ॥ नृत्यति चैत्रः। गात्रविक्षेपं करोतीत्यर्थः । मेघो वर्षति । जलमित्यथः । गच्छति । ग्राममिति शेषः ॥
(शीङोऽयः ये किङति) शय्यते । शिश्ये ।शायिषीष्ट-शयिषीष्ट । अशायि । अयकि ॥ ऋतोरिडू भवत्यकारप्रत्यये यकि च । घटः क्रियते । त्वं दुःखी क्रियसे रागैविरागैः सुख्यहं क्रिये । चके। भाव्यते । भावयांचके । भावयामासे । भावयांबभूवे॥
(सुबोधिनी)-शीङोऽयड़ ये किङति॥शेतेरयङादेशः स्यास्किति ङिति च यप्रत्यये परे ॥ ङित्त्वादन्तादेशः। यत इत्यलोपः । शय्यते । नुधातोरिति यः। शिश्ये । इण्वद्भावाद्वा वृद्धिः । शायिषीष्ट-शयिषीष्ट । करोतेः कर्मण्यात् । उरिति न गुणः। कृषीष्ठ । चौरादिकात् ञ्यन्ताद्भावयतेः कर्मण्यात् जरिति जिलोपः।
भाव्यते ॥
(इण्वदिटि ओर्लोपः) भाविता-भावयिता । भाविष्यते-भावयिष्यते । अभावि, अभाविषाताम्-अभावयिषाताम् । सन्नन्तातु : बुभूष्यते । बुभूषांचक्रे । अबुभूषि । यङन्तात्तु । बोभूय्यते । बोभूयांचक्रे ॥ यलगन्तातु बोभूयते । बोभवांचक्रे । बोभाविष्टि बोभविषीष्ट ॥ स्तूयते विष्णुः । अस्तावि, अस्ताविषाताम्-अस्तोषाताम् ॥ अर्यते । आरे । आरिषीष्ट ऋषीष्ट । आरिष्ठाः-आर्थाः ॥ स्मर्यते । स्मारिता-स्मर्ता ॥ इज्यते । ईजे । यक्षीष्ट-यष्टा ॥
(सुबोधिनी)-इण्वदिटि ओर्लोपः॥ जिलोपो वा स्यादिण्वदिदि परे । जिलोपे भाविता । पक्षे सिसतेतीटि भावयितास प्रत्ययान्तात् बुभूपतेर्भा आत्।यत इत्यल्लोपः। बुभूष्यते। यङ्प्रत्ययान्तात्तु यत इत्यलोपे बोभूय्यते । यलुगन्ताद्भावे आत्।वोभूयते। स्तोते. कर्मण्यात् । ये इति दर्धिः। स्तूयते॥ऋ गतौ कर्मण्यात् । गुणोऽतीति गुणः । अर्यते । इण्यदिटि तु धातोर्नामिन इति वृद्धिः।आरिता ॥ स्मृ चिन्तायाम् । गुणो. ऽतति गुणः । स्मयंत ॥ यजतेः कर्मण्यात् । यजामिति संप्रसारणम् । इज्यते । लिटि । ईजे । आशिषि लिडि । यक्षीष्ट ॥