________________
[ आख्याते भावकर्मप्र०] टीकाद्वयोपेता ।
( १९३) (तनोतर्वाऽऽत्वं यकि) तायते-तन्यते । तनिषीष्ट । अतानि ॥ जायते-जन्यते ॥ (सुबोधिनी)-तनोतेर्वाऽऽत्वं यकितनेराकारोऽन्तादेशो वा स्याद्यक्प्रत्यये परे॥
(तपो नेण कर्मकर्तर्यनुतापे च) अन्वतप्त देवदत्तः पापेन ॥ दादेरिः। दीयते । ददे ॥ ___ (सुबोधिनी) तपो नेण् कर्मकर्तर्यनुतापे च ॥ तपरिण प्रत्ययो न स्यादनुतापेऽर्थे कर्मकर्तर्यर्थे च॥ अन्वतप्त देवदत्तः । पापेन काऽभ्याहत इत्यर्थः । भावेऽपीदं बोध्यम् । पापवता पुंसाविचार्य कृत्वा पश्चादशोचीत्यर्थः ॥ कर्मकर्तरि तु-अतप्त तपस्तापस इत्यत्र तपस्तपःकर्मकस्येत्यनेन कर्तुः कर्मवद्भावः॥ डुदान दाने । दादेरिरितीत्वम् । ये इति दीर्घः । दीयते । आतोऽनपीत्यालोपे ददे ॥
(तत्त्वदी०)-तपो नेण् कर्मकर्तर्यनुतापेच॥ तप संतापे इत्यस्मादण् न।पापेनति ॥ पूर्वं कृतं यत्पापं कर्तृ तेनाभ्याहतो देवदत्त इत्यर्थः । पापेनेति कर्तरि तृतीया । यदा तु कर्म न विवक्ष्यते, शोकार्थो वा तपिरतदा भावे लः । पापेनेति कर्तरि तृतीया । करणे पुरुषधर्मयोरनभिधानात् । अभ्याहननार्थस्य तु कमकर्तृत्वविवक्षायां हतौ तृतीयेति बोध्यम् ॥
( आतो यक ) इणि णिति कृति च ॥ दायिषीष्ट-दासीष्ट , अदायि, अदायिषाताम्-आदिषाताम् ॥ धीयते ॥ स्थीयते ॥ अग्लायि ॥ हन्यते । हनो घ्ने । वानिषीष्ट-वधिषीष्ट । घानिताहन्ता । अघानि, अघानिषाताम्-अहसाताम् । अवधि, अवधिषाताम् ॥
(सुबोधिनी)-आतो युक॥ आदन्तस्य धातोर्युक स्यादिणि प्रत्यये परे जिति णिति कृत्प्रत्यय च परे॥घत्रि दायः । वुणि दायकः। इण्वदिटि दायिषीष्ट । इण्वदिटोऽभावे दासीष्ट। लुङि अदायि । इण्वदिटि अदायिषाताम् । तदभावे अपिदाधास्थामितीत्वम् । आदिषाताम् ॥ एवं धास्था धातू ॥ ग्लै हर्षक्षये । इण्वदिटि युक् । अग्लायिषाताम् ॥ हन्तेः कर्मण्यात् । हन्यते । पूर्वाद्धन्तरिति घः। जघ्ने । हनो लुालिङोरिति वधः । यत इत्यल्लोपः।वधिषीष्ट । पक्षे हनो न इतिघः । अत उपधाया इति वृद्धिः । घानिषीष्ट । इण्वद्भावो वधादेशस्य बाधको ज्ञेयः । अत्र हनो वदित्यनेन घदादेशो न । इण्वर्जिते इत्युक्तत्वात् । लटि इण्वदिटि धानिष्यते । पक्षे हन्नृत इतीट् । हनिष्यते । लुङि इण्वदिडभावे हनः सिः किदिति कित्त्वात् लोपस्त्वनुदात्ततनामिति नलोपः ॥ अहसाताम् ॥गृहातेः कर्मण्यात्। ग्रहामिति संप्रसारणम् । गृह्यते ॥