________________
( १९४ )
सिद्धान्तचन्द्रिका |
[ आख्याते भावकर्मप्र ० ]
( तत्वदी० ) - वधिषीष्टेति ॥ इण्वदभावे वधादेशो बोध्यः ! वध हिंसायामिति प्रकृत्यन्तरम् | अवधीति || जनिवध्योरिति वृद्धिनिषेधः । हनादेशस्य त्वद तत्वान्न वृद्धिः । तथा प्रयोगः । भक्षकश्चन विद्यते वधकोऽपि न विद्यत इति ॥
( इण्वदिटो न दीर्घः ) ग्राहिता - ग्रहीता । दर्शिषीष्ट-दृक्षीष्ट । दर्शिता - द्रष्टा । अदर्शि अदर्शिषाताम् - अक्षाताम् ॥ शम्यते मुनिना ॥
(सुबोधिनी ) - इण्वदिटो न दीर्घः ॥ ईटी ग्रहामिति सूत्रेण सिसतेत्यादिलक्षणेन विधीयमानस्यैवेटो दीर्घो भवति नेण्वदिट इत्यर्थः । दृशेः कर्मण्यात् । लुङि इवदिटि परे उपधाया लघोरिति गुणः । अदर्शिषाताम् । पक्षे छशषेति षत्वम्। षढोरिति कः । हशषान्तादिति सक् तु न । न तु दृशेरित्युक्तत्वात् । सिस्योरिति न गुणः। अदृक्षाताम् । शमेर्भावे आदकर्मकत्वात् ॥
( मान्तस्य सेटो न वृद्धिरिणि णिति कृते च न त्वाचमिकमिवमीनाम् ) अशमि । अदमि । आच मि | अकामि । अवामि ॥ ञ्यन्तात्तु शम्यते मोहो मुनिना । शमयाञ्चक्रे ॥
(सुबोधिनी) - मान्तस्य सेटो न वृद्धिरिणि ञ्णिति कृति च न त्वाचमिकमिवमनाम् ॥ सेटो मान्तस्य धातोर्वृद्धिर्न स्यादिणि ञिति णिति कृत्प्रत्यये च परे । आचमिकमिवमीनां तु वृद्धिर्भवतीत्यर्थः । घञि शमः, दमः । वुणि शमकः दमकः । कथं तर्हि 'हरेर्यदक्रामि पदैककेन खम्' इति श्रीः प्रयोग इति चेदुच्यते । 'निवृतप्रेषणाद्धातोः प्राकृतेऽर्थे णिजिष्यते ।' इति प्राकृते ञिस्तत इण् बोध्यः । सेटःकिम्। अगामि ॥ कमु कान्तौ । कमेः स्वार्थे ञिङिति ञिङ् वा । जेरिति ञिलोपः । काम्यते । लुङि ञिङभावे । अकामि । ञिञिङोरप्येवम् । ञ्यन्तात् शमेः कर्मण्यात् । जेरिति ञिलोपः । शम्यते । कासादिप्रत्ययादित्याम् । शमयाञ्चक्रे ॥
(मितां यन्तानामिणिणमि च वा दीर्घः ) शामिता - शमिताशमयिता । अशामि - अशमि । अशामिषाताम् - अशमिषाताम्अशमयिषाताम् ॥ वध हिंसायाम् । वय । जनिवध्योर्न
वृद्धिः । अवधि ॥
( सुबोधिनी) - मितां ञ्यन्तानामिणि णमि च वा दीर्घः ॥ मित्संज्ञकानां ञ्यन्तानां धातूनां वा वृद्धिर्भवति इणप्रत्यये णम्प्रत्यये च परे । इण्वदिटि नेरिति ञिलोपः । वृद्धिश्व वा । शामिता-पक्षे शमिता-पक्षे सिसततीटि गुणः । शमयिता । यङन्तप्रकृतिकञिप्रत्ययान्तात् शंशमेः कर्मण्यात् । जौ परतोऽनपि च हसादिति यलोपः । यत इत्यलोपः । ततो यकि जेरिति ञिलोपः शंशम्यते । लुटि शंशा