SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ ( १९४ ) सिद्धान्तचन्द्रिका | [ आख्याते भावकर्मप्र ० ] ( तत्वदी० ) - वधिषीष्टेति ॥ इण्वदभावे वधादेशो बोध्यः ! वध हिंसायामिति प्रकृत्यन्तरम् | अवधीति || जनिवध्योरिति वृद्धिनिषेधः । हनादेशस्य त्वद तत्वान्न वृद्धिः । तथा प्रयोगः । भक्षकश्चन विद्यते वधकोऽपि न विद्यत इति ॥ ( इण्वदिटो न दीर्घः ) ग्राहिता - ग्रहीता । दर्शिषीष्ट-दृक्षीष्ट । दर्शिता - द्रष्टा । अदर्शि अदर्शिषाताम् - अक्षाताम् ॥ शम्यते मुनिना ॥ (सुबोधिनी ) - इण्वदिटो न दीर्घः ॥ ईटी ग्रहामिति सूत्रेण सिसतेत्यादिलक्षणेन विधीयमानस्यैवेटो दीर्घो भवति नेण्वदिट इत्यर्थः । दृशेः कर्मण्यात् । लुङि इवदिटि परे उपधाया लघोरिति गुणः । अदर्शिषाताम् । पक्षे छशषेति षत्वम्। षढोरिति कः । हशषान्तादिति सक् तु न । न तु दृशेरित्युक्तत्वात् । सिस्योरिति न गुणः। अदृक्षाताम् । शमेर्भावे आदकर्मकत्वात् ॥ ( मान्तस्य सेटो न वृद्धिरिणि णिति कृते च न त्वाचमिकमिवमीनाम् ) अशमि । अदमि । आच मि | अकामि । अवामि ॥ ञ्यन्तात्तु शम्यते मोहो मुनिना । शमयाञ्चक्रे ॥ (सुबोधिनी) - मान्तस्य सेटो न वृद्धिरिणि ञ्णिति कृति च न त्वाचमिकमिवमनाम् ॥ सेटो मान्तस्य धातोर्वृद्धिर्न स्यादिणि ञिति णिति कृत्प्रत्यये च परे । आचमिकमिवमीनां तु वृद्धिर्भवतीत्यर्थः । घञि शमः, दमः । वुणि शमकः दमकः । कथं तर्हि 'हरेर्यदक्रामि पदैककेन खम्' इति श्रीः प्रयोग इति चेदुच्यते । 'निवृतप्रेषणाद्धातोः प्राकृतेऽर्थे णिजिष्यते ।' इति प्राकृते ञिस्तत इण् बोध्यः । सेटःकिम्। अगामि ॥ कमु कान्तौ । कमेः स्वार्थे ञिङिति ञिङ् वा । जेरिति ञिलोपः । काम्यते । लुङि ञिङभावे । अकामि । ञिञिङोरप्येवम् । ञ्यन्तात् शमेः कर्मण्यात् । जेरिति ञिलोपः । शम्यते । कासादिप्रत्ययादित्याम् । शमयाञ्चक्रे ॥ (मितां यन्तानामिणिणमि च वा दीर्घः ) शामिता - शमिताशमयिता । अशामि - अशमि । अशामिषाताम् - अशमिषाताम्अशमयिषाताम् ॥ वध हिंसायाम् । वय । जनिवध्योर्न वृद्धिः । अवधि ॥ ( सुबोधिनी) - मितां ञ्यन्तानामिणि णमि च वा दीर्घः ॥ मित्संज्ञकानां ञ्यन्तानां धातूनां वा वृद्धिर्भवति इणप्रत्यये णम्प्रत्यये च परे । इण्वदिटि नेरिति ञिलोपः । वृद्धिश्व वा । शामिता-पक्षे शमिता-पक्षे सिसततीटि गुणः । शमयिता । यङन्तप्रकृतिकञिप्रत्ययान्तात् शंशमेः कर्मण्यात् । जौ परतोऽनपि च हसादिति यलोपः । यत इत्यलोपः । ततो यकि जेरिति ञिलोपः शंशम्यते । लुटि शंशा
SR No.002415
Book TitleSiddhant Chandrika Uttararddham
Original Sutra AuthorN/A
AuthorKshemraj Shrikrishnadas Shreshthi
PublisherKshemraj Shrikrishnadas Shreshthi
Publication Year1850
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy