________________
[ आख्याते कर्मकर्तृप्र० ]
टीकाद्वयोपेता |
मिता - शशमिता - शंशमयिता । लुङि अशशामि-अशशमि । णम्प्रत्यये मं- शंशमम् ॥ वृध हिंसायाम् । हसान्तः ॥
( भञ्जेरिणि नलोपो वा ) अभाजि अभञ्जि ॥
( सुबोधिनी )-भञ्जेरिणि न लोपो वा । भञ्जो आमर्दने इत्यस्य नस्य लोपो वा स्यादिणि प्रत्यये परे ॥
( १९५ )
शंशा
(लभेरिणामोर्तुम्वा ) अलम्भि - अलाभि “गाँणे कर्मणि दुह्यादेः प्रधाने नीहकृष्वहाम् । बुद्धिभक्षार्थयोः शब्दकर्मकाणां निजेच्छया ॥ प्रयोज्यकर्मण्यन्येषां त्र्यन्तानां लादयो मताः ||" गौर्डह्यते पयः । धुक्षीष्ट ॥ अजा ग्रामं नीयते । हियते । कृष्यते । उह्यते ॥ बोध्यते माणवकं धर्मः, माणवको धर्ममिति वा ॥ भोज्यते माणवकमोदनः, माणवक ओदनमिति वा ॥ पाठ्यते माणवकं वेदः, माणवको वेदमिति वा ॥ देवदत्तो ग्रामं गम्यते ॥
( सुबोधिनी ) - लभेरिणमोर्तुम् वा ॥ डुलभ प्राप्तावित्यस्य नुमागमो वा स्यादिणि प्रत्यये णमि प्रत्यये च परे ॥ प्रादेर्नित्यं नुम् । प्रपूर्वस्य लभेर्नित्यं नुम् स्यात् णमि प्रत्यये । प्रलम्भम् ॥ अथ ये द्विकर्मकधातवस्तेभ्य आत्कृत्यक्तखलर्थप्रत्ययाः किं मुख्ये कर्मणि, उत गौणे, किं चोभपोरिति संदेहे व्यवस्थामाह - " गौणे कर्मणि दुह्यादेः प्रधाने नीकृषवहाम् । बुद्धिभक्षार्थयोः शब्दकर्मकाणां निजेच्छया ॥ प्रयोज्यकर्मण्यन्येषां ञ्यन्तानां लादयो मताः ॥” दुह्याचिति कारके उक्तम् । दुह्यादेर्द्वादशसंख्यस्य धातोर्गौणे कर्मणि लादयः प्रत्यया मताः । नीप्रभृतीनां चतुर्णां प्रधाने कर्मणि लादयो मताः । बुद्धिभक्षार्थयोर्व्यन्तयोः शब्दकर्मकञ्यन्तानां च प्रयोज्यप्रधानयोरन्यतरकर्मणि निजेच्छया लादयो मताः । अन्येषां ञ्यन्तानां तु प्रयोज्यकर्मणि लादयो मताः । कारके गतिबुद्धीत्यनेन कर्त्तर्यत्कर्मकारकं कृतं तत्प्रयोज्यं कर्म ज्ञातव्यम् । लादयू इत्यत्रादिशब्देन कृत्यक्तखलर्थाः प्रत्यया ग्राह्याः । दुह्यादेर्गौण कर्मण्यात्। स्वार्थमुत्सृज्य परार्थावलम्बनं गौणम् । उदाहरणमाह-गौर्दह्यते पय इत्यत्र गौरिति गौणं कर्म । तत्राख्यातेनोक्तत्वादन्योक्ते इत्यनेन प्रथमा । पय इति तु मुख्यं कर्म । तत्र कर्मणि द्वितीया । कर्तुरनुक्तत्वात्तृतीया देवदत्तनेति । न्यादीनां प्रधानकर्मण्यात् । उदाहरणमाह-अजा ग्रामं नीयते इत्यत्राजेति मुख्यं कर्म । तत्रोक्तत्वात्प्रथमा । ग्राममिति गौणं कर्म । कर्त्ता तु तृतीयान्तोऽध्याहार्यः ॥ बुद्धिभक्षार्थयोः शब्दकर्मकाणां च व्यन्तानां प्रयोज्ये मुख्ये च कर्मण्यात् । उदाहरणमाह-बोध्यते माणवकं धर्म इत्यत्र धर्म इति मुख्यं कर्म | माणवकमिति प्रयोज्यं कर्म । तत्र निजेच्छयाssख्या तादिः कर्तव्यः । भोज्यंते माणवकमोदन इत्यत्रौदन इति मुख्यं कर्म | माणवकमिति प्रयोज्यं कर्म । तत्र निजेच्छयाऽऽख्यातादिः । पाठ्यते, माणवकं वेद इत्यत्र वेद इति