________________
सिद्धान्तचन्द्रिका। [आख्याते कर्मकर्तृप्र. ] मुख्यं कर्म । माणवकमिति प्रयोज्यं कर्म । तत्र निजेच्छयाऽऽख्यातादिः । तृतीयान्तः कर्ताऽध्याहार्यः ॥ ञ्यन्तस्य प्रयोज्यकर्मण्यात् । उदाहरणमाह-देवदत्तो ग्रामं गम्यत इत्यत्र ग्राममिति मुख्यं कर्म । देवदत्त इति प्रयोज्यं कर्म । तत्राख्यातादिः। कर्मण उक्तत्वात् प्रथमा । कर्ता तु तृतीयान्तोऽध्याहार्यः॥
(तत्त्वदी०)-द्विकर्मकाणां तु-गौणे कर्मणीत्यादि ॥ गौर्दुह्यत इति ॥ गौरिति गौणं कर्म ॥ अजेत्यादि ॥ अजाऽत्र प्रधानम् । निजेच्छयेति ॥ गौणप्रधानयोरात्मेच्छयेत्यर्थः॥ अन्येषामिति ॥ पूर्वोक्तव्यतिरिक्तानामित्यर्थः ॥
(अकर्मकाणां कालादिकर्मकाणां भावे कर्मणि च लकारः) मासं मासो वाऽऽस्यते देवदत्तेन । क्रोशःक्रोशं वाऽऽस्यते । कुरवः, करून् वाऽऽस्यते । गोदोहं गोदोहो वाऽऽस्यते ॥ ञ्यन्तात्तु प्रयोज्ये प्रत्ययः। मासमास्यते माणवकः ॥ इति भावकर्मप्रक्रिया ॥
(सुबोधिनी )-अकर्मकाणां कालादिकर्मकाणां भावे कर्मणि च लकारः॥कालादिकर्मकाद्धातोर्भावकर्मणोरर्थयोराख्यातो भवति ॥कारकं,अकर्मकधातुभियोगे इति सूत्रेण कर्मसंज्ञा येषां धातूनां कृता ते कालादिकर्मकाः । कालादिकर्मकस्य कर्मण्यात् । उदाहरणमाह-मास आस्यते इत्यत्र कालवाचिकर्मण आख्यातनोक्तत्वात्प्रथमा । कर्ता तु तृतीयान्तोऽध्याहार्यः॥ भावे तु मासमास्यते देवदत्तनेत्यत्र कर्मणोऽनुक्तत्वान्मासमिति द्वितीया । कर्तृरनुक्तत्वादेवदत्तेनेति कर्तरि तृतीया। ज्यन्ताकालादिकर्मकाद्धातोस्तु प्रयोज्यकर्मण्येवाख्यातादिः ॥ मासमास्यते माणवक इति । अत्र कालवाचिकर्मणोऽनुक्तत्वान्मासमिति द्वितीया । माणवक इति प्रयोज्यं कर्म । तत्राख्यातेनोक्तत्वात्प्रथमा । कर्तरि त्वनुक्तत्वात्तृतीया देवदत्तेनेति ॥ .
इति सुबोधिन्यां भावकर्मप्रक्रिया ॥८॥
अथ कर्मकर्तृप्रक्रिया। यदा सौकर्यातिशयं द्योतयितुं कर्तृव्यापारो न विवक्ष्यते तदा कारकान्तराण्यपि कर्तृसंज्ञां लभन्ते ॥ साध्वसिश्छिनत्ति ॥ काष्ठानि पचन्ति ॥ स्थाली पचति ॥ पच्यते ओदनेन । अपाचि ॥ भिद्यते काष्ठेन । अमेदि ॥ लेनोक्ते कर्मकर्तरि यगादिणिण्वदिटः । पच्यते ओदनः । अपाचि । भिद्यते काष्ठम् । अभेदि ॥ (सुबोधिनी)सकलकारकाणामवान्तरव्यापारोवर्तते।सकलकारकाणामवान्तरव्यापारहीनस्याकारकत्वात्।तत्र स्वव्यापारे स्वातन्त्र्यं च व्यापारभेदाकाङ्क्षायां करणादिसंभवः। तत्र यदाकारकान्तराणां सौकर्यातिशयं द्योतयितुंप्रतिपादयितुं कर्तृव्यापारो वक्तुं नेष्यतेतदाकारकान्तराण्यपि कर्तृसंज्ञां प्राप्नुवन्ति स्वव्यापारे स्वतन्त्रत्वात् । सुष्ठु करोतीति