________________
[ आख्याते कर्मकर्तृप्र० ]
टीकाद्वयोपेता ।
( १९७ )
सुकरस्तस्य भावः सौकर्यम् । कारकान्तराणां पूर्वं करणत्वादिसत्त्वेऽपि साम्प्रतं कर्तृसंज्ञाकरणात्कर्तर्याख्यातो भवति ॥ साध्वसिश्छिनत्तीत्यत्र करणस्य कर्तृसंज्ञा । आख्यातेन कर्तुरुक्तत्वादसिरित्यत्र प्रथमा ॥ काष्ठानि पचन्तीत्यत्रापि करणस्य कर्तृसंज्ञा । कर्तुराख्यातेनोक्तत्वात्काष्ठानीति प्रथमा ॥ स्थाली पचतीत्यत्राधारस्य कर्तृसंज्ञा । कर्तुराख्यातेनोक्तत्वात्स्थालीति प्रथमा ॥ कर्मणस्तु कर्तृत्वविवक्षायां प्राक् सकर्मका अपि प्रायेणाकर्मकाः ॥ कर्मणः सौकर्यातिशयं द्योतयितुं यदा कर्तृत्वविवक्षा ततः प्राक् सकर्मका अपि धातवोऽकर्मकाः प्रायेण भवन्ति । प्रायेणेत्युक्तत्वादेककर्मकाछिदिभिदिप्रभृतय एवाकर्मका भवन्ति न तु द्विकर्मकाः ॥ अकर्मकस्य फलमाहतेभ्यो भावे कर्तरि च लकारः । कर्मकर्तुरकर्मकाद्धातोर्भावे कर्तरि चार्थे आख्यातप्रत्ययो भवति । भावे आख्यातस्योदाहरणमाह- पच्यते ओदनेन भिद्यते काष्ठेनेत्यत्र कर्मणः कर्तृसंज्ञा। आख्यातस्तु भावे । कर्तुरनुक्तत्वादोदनेनेत्यादौ तृतीया ॥ कर्मकर्तर्याख्यातस्योदाहरणमाह-लेनोक्ते इत्यादि । कर्मवत्कर्मणा तुल्यक्रियः । कर्मस्थया क्रियया तुल्यक्रियः कर्ता कर्मवद्भवति । कार्यातिदेशोऽयम् । कर्मणो यत्कार्यं भवति तत्कर्मकर्तुरपीत्यर्थः । तेन यक् चतुष्विति यकू । आद्भुवीत्यात् । इण् तनीती । स्वरान्तानामितीण्वदिट् इत्यादि कार्याणि कर्मकर्तरि भवन्ति ॥ काष्ठं भिनत्तीत्यत्र काष्ठस्था या विदारणाश्रयत्वरूपा क्रिया सैव काष्ठं भिद्यते स्वयमेवेत्यत्र तस्मिन्कभूतेऽपि भवति । अयं कार्यातिदेशः कर्मस्थभावकानां कर्मस्थक्रियाणां च धातूनां भवति न तु कर्तृस्थभावकानां कर्तृस्थक्रियाणां च धातूनां भवति । यत्र कर्मणि दृष्टे क्रियानुमातुं शक्यते ते कर्मस्थक्रियास्ततोऽन्ये कर्तृस्थक्रियाः । पक्केषु तण्डुलेषु भिन्नेषु च काष्ठेषु दृष्टेष्वदृष्टः कर्तृव्यापारोऽनुमीयते । तदुक्तं च- "कर्मस्थः पचतेर्भावः कर्मस्था च भिदेः क्रिया । आशासिभावः कर्तृस्थः कर्तृस्था च गमेः क्रिया ॥ * यद्यप्याधारभावयोरित्यत्र भावशब्देन क्रियाऽपि गृह्यते तथाप्यत्र भेदो विवक्षितः पृथगुपादानात् । परिस्पन्दरूपो धात्वर्थः छिदादिः क्रिया अपरिस्पन्दरूपो विक्लित्त्यादिर्भावः । पचत्योदनं भिनत्ति काष्ठं च देवदत्तः । पच्यते ओदनः भिद्यते काष्ठं स्वयमेवेत्यत्राख्यातेन कर्मकर्तुरुक्तत्वात्प्रथमा || कर्तृस्थक्रियाया उदाहरणमाह-आशास्ते घटं देवदत्तः । आशास्ते घटः स्वयमेव । गच्छति ग्रामं देवदत्तः । गच्छति ग्रामः स्वयमेवेत्यत्र घटग्रामयोर्दृष्टयोर्नहि देवदत्तस्य व्यापारोऽनुमातुं शक्यत इति कर्तृस्थत्वं क्रियायाः ॥
( तत्त्वदी ० ) - यदा सौकर्यातिशयमित्यादि । अयमर्थः । सकलकारकाणामवान्तरव्यापारोऽस्ति । व्यापारहीनस्य कारकत्वाभावात् । स्वव्यापारे स्वतन्त्रत्वं सर्वत्रैव कारकेऽस्ति । व्यापारभेदाकाङ्क्षायां कारकत्वादिसंभवः । तत्र यदा कर्मणः सौकर्यातिशयप्रतिपादनाय कर्तृव्यापारो न विवक्षितस्तदा भिदादिकर्म व्यापारकारकमात्रे प्रवर्तते । व्यापारमात्रं प्रति च कर्तृत्वमेव काष्ठादीनाम् ॥