________________
(१९८)
सिद्धान्तचन्द्रिका। [आख्याते कर्मकर्तृप्र० ] यदा करणत्वादिलेशोऽपि न तदा सकर्मकाणामप्यकर्मकत्वमेव। तत्र भावे कर्तरि च लकारः । कतरि तु लेनोक्ते इत्यादि। कर्मग्रहणात्साध्वसिरित्यादौन। यद्यपि काष्टादेरचे नतया कुठारोद्यमननिपातनादिकरणसम्बन्धेन भेदनादिकर्तृत्वमनुपपन्नं तथापि स्वधरँः प्रशि थेलावयवसंयोगनिस्सरणादिभिः कर्मकर्तृत्वमिति ध्येयम् ।
(सकर्मकाणां न)अजा ग्रामं नयति ॥ (सुबोधिनी) सकर्मकाणां न।सकर्मकधातूनां कर्मकर्ता कर्मवन्न भवति। अजा ग्रामं नयतीत्यत्र प्रधानकर्मणः कर्तृसंज्ञा । प्रधाने नीहृकृषवहामित्युक्तत्वात् । आख्यातेनोक्तत्वात्तत्र प्रथमा । इह प्रतिषेधाभावे यक स्यात् । क्रियाफलस्याकर्तृगामित्वेऽप्यात्मनेपदं स्यादित्यर्थः॥
(दुहिपच्योः सकर्मकयो) (सुबोधिनी )-दुहिपच्योः सकर्मकयोर्वा ॥ अनयोः कर्मकर्ता कर्मवद्वा भवति ॥
(दुहस्नुनमा कर्मकर्तरि यगिणौ न )गोः पयो दुग्धे,दोग्धिवा। (सुबोधिनी) दुहस्नुनमा कर्मकर्तरि यगिणी न॥ एभ्यो यगिणौ प्रत्ययौ न भवतः कर्मकर्तर्यर्थे । दुहेरनेन यक् निषिध्यते, इण तु विकल्पेन वक्ष्यते । गौः पयो दुग्धे इत्यत्र गौणकर्मणः कर्तृत्वविवक्षा । गौणे कर्मणि दुह्यादेरित्युक्तत्वात् ॥
(स्वरान्तानां कर्मकर्तरीण वा तनि) अकारि अकारिष्ट-अकृत कटः स्वयमेव ॥
(सुबोधिनी)-स्वरान्तानां कर्मकर्तरीण वा तनि॥ स्वरान्तेभ्यो धातुभ्यः इण् प्रत्ययो वा भवात कमेंकतेयेर्थे तनि परे ॥ स्वरान्तानां किम् । अमेदि काष्ठम् ।। कर्मकर्तरि किम् । अकारि घटः कुलालेन । कर्मकर्ता लुङ् यथा । अकारि घटः स्वयमेव । पक्षे लोपो ह्रस्वादिति सिलोपः । अकृत।।
(दुहश्च) अदोहि-अधुक्षत-अदुग्ध॥ उदुम्बरः फलं पच्यते, पचति वा ॥ प्रस्तुते गौः । स्तुक्रमोराति नेट् ॥ प्रास्नाविष्टप्रास्नोष्ट ॥ नमते दण्डः। अनंस्त ।
(सुबोधिनी)-दुहश्च ॥ दुहेरिण प्रत्ययो वा वति कर्मकर्तर्यर्थे तनि परे ॥ कर्मकर्तरि किम् । अदोहि गौर्देवदत्तेन । कर्मकर्तरि लुङ् यथा । इणप्रत्यये अदोहिपक्षे हशषान्तादिति सक् । दुहदिहलिहगुहूभ्य इति सको वा लुक् । अधुक्षत-पक्षे अदुग्ध ॥ फलं पच्यते उदुम्बर इत्यत्र गौणकर्मण उदुम्बरस्य कर्तृसंज्ञा। गौणे कर्मणि दुह्यादेरित्युक्तत्वात् । तत्र कर्मवद्भावस्तेन यगादिण्वदिणिटो भवन्ति॥ष्णु प्रस्रवणे।