________________
[ आख्याते कर्मकर्तृप्र०] टीकाद्वयोपेता ।
( १९९) प्रस्रवणमुत्कण्ठा । वत्सो गां प्रस्नौति । उत्कण्ठयतीत्यर्थः ॥ गोः कर्मणः कर्तृत्वविवक्षायां प्रस्नुते गौः।लुङि स्वरान्तानां हनग्रहतीण्वदिट् । प्रास्नाविष्ट-पक्षे स्नुक्रमोरिति नेट । प्रास्नोष्ट ॥ नमते दण्ड इत्यत्र कर्मणः कर्तृसंज्ञा।आख्यातेनोक्तत्वात्तत्र प्रथमा। लुङि अनंस्त । अत्र कर्मकर्तर्यात्मनेपदमेव जातम् । अत्र चअन्तर्भावितञ्यों बोध्यः॥
(सृजेः श्रद्धोपपन्ने कतरि वा) सृज्यते स्रजं भक्तः । असर्जि ॥ (सुबोधिनी)-सृजेः श्रद्धोपपने कर्तरि वा ॥ सकर्मकस्य सृजेः कर्ता कर्मवद्वा भवति श्रद्धायुक्ते कर्तर्यर्थे । सृज्यते स्रजं भक्त इत्यत्र कर्ताख्यातादिः। कर्तुः कवद्भावादाद्यगिणो भवन्ति । श्रद्धया निष्पादयतीत्यर्थः ॥
(युजेर्वा) युज्यते ब्रह्मचारी योगम् । युनक्ति वा ॥ (सुबोधिनी)-युजेर्वा ॥ सकर्मकस्य युजेः कर्ता कर्मवदा भवति । युज्यते योगं ब्रह्मचारीत्यत्र कर्ताख्यातः । कर्तुः कर्मवद्भावादाद्यगिणः । तपस्तपःकर्मकस्य । तपःकर्मकस्य तपेः कर्ता कर्मवद्भवति । तप्यते तपस्तापस इत्यत्र कर्तर्याख्यातः। कर्तुः कर्मवद्भावादात्मनेपदादिः । अर्जयतीत्यर्थः। लुङि तपो नेणित्यनेनेण्न । अतप्त ।
(भूषावाचिनां किरादीनां सान्तानां च गाणण्वदिटो न) अलंकुरुते कन्या । अलमकृत ॥ अवकिरते हस्ती । अवाकरीष्टअवाकारिष्ट-अवाकीट ॥ अवगिरते पुष्मम् । अवागीट ॥ आद्रियते दानम् । आहत ॥ ध्रियते । अधृत ॥ पृच्छते । अप्रष्ट ॥ चिकीर्षते कटः । चिकीर्षाश्चक्रे । चिकीर्षांबभूवे । अचिकीर्षिष्ट ॥ _(सुबोधिनी)-भूषावाचिनां किरादीनां सान्तानां च यगिणिण्वदिटो न ॥ भूषार्थेभ्यः किरादिभ्यः सप्रत्ययान्तेभ्यश्च धातुभ्यः कर्मकर्तरि यगिणिण्वदिटो न भवन्ति । आत्मनेपदमेव भवतीत्यर्थः॥ तुदाद्यन्तर्गणः किरादिः कृ विक्षपे। ग़ निगरणे । दृङ् आदरे । धृ अवस्थाने । प्रच्छ ज्ञीप्सायामिति पञ्चकः ॥ अलंकुरुते कन्येत्यत्र कर्मणः कर्तृसंज्ञा। आख्यातेनोक्तत्वादत्र प्रथमा। एवमग्रेऽपि ज्ञेयम् । तुदादेरित्यः। ऋत इतीर ।अवकिरते।लुङि । वृ ऋदन्तान्सिस्योरिति वेट् । अवाकरिष्ट । वृवृऋदन्तानामिति वा दीर्घः । अवाकरीष्ट । ईडभावे उरित गुणो न । ऋत इतीर । पुनः सिस्योरिति गुणो न अवाकीट ॥ एवं गृ ॥ तुदादेरित्यप्रत्यये अयकीति रिङ् । ततो नुधातारितीय । आद्रियते । लुङि उरिति गुणो न । लोपो हस्वादिति सिलोपः। आदृत ॥ एवं धृ । तुदादेरित्यप्रत्यये ग्रहामिति संप्रसारणम् । पृच्छते । लुङि छशषेति षत्वम् । झसादिति सिलोपः। अप्रष्ट ॥ चिकीर्षते कट इत्यत्र कर्मणः कर्तृसंज्ञा । आख्यातेनोक्तत्वात्तत्र प्रथमा।लुङि सिसतेतीद। यत इत्यल्लोपः। अचिकीर्षिष्ट ।