________________
(२००)
सिद्धान्तचन्द्रिका । [ आख्याते कर्मकर्तृप्र० ] (जिश्रिब्रूझश्रन्थिग्रन्थ्यादकर्मकाणां यगिणौ न ) कारयते कटः स्वयमेव । कारिषीष्ट । अचीकरत ॥ उच्छ्रयते दण्डः। उदशिश्रियत । ब्रत कथा । अवोचत ॥ श्रन्थते । अअंथिष्ट ॥ ग्रन्थते ग्रन्थः । अग्रन्थिष्ट ॥ विकुर्वते सैन्धवाः ॥ व्यकारिष्ट । व्यकृत ॥
(सुबोधिनी०)-निधिबेश्रन्थिग्रन्थ्यादकर्मकाणां यगिणी न॥जिप्रत्ययान्तेभ्यः श्रिश्रन्थिग्रन्थिभ्यः आत्मनेपदविधावकर्मकेभ्यश्च धातुभ्यो यगिणी न भवतः कर्मकर्तर्यर्थे । आदिण्वदिटौ भवत इत्यर्थः ॥ कारयते घट इत्यत्र ज्यन्ताकर्मकर्तर्याख्यातः । तत्रोक्तत्वात्प्रथमा। लुङि येराङत्यङ् । द्वित्वे अङि लघावित्युपधाह्रस्वः पूर्वस्येकारश्च । लघोरिति पूर्वदर्घिः । बेरिति त्रिलोपः। अचीकरत ॥ उच्छ्रयते दण्ड इत्यत्र कर्मकर्तर्याख्यातः । अप् कर्तरीत्यप् । लुङि श्रिवद्रभ्य इति ङः। द्वित्वे नुधातोरतीय । उदशिश्रियत ।ब्रूते कथेत्यत्र कर्मणः कर्तृसंज्ञा। आख्यातेाक्तत्वात्तत्र प्रथमा । लुङि ब्रुवोऽनपीति वच् । अस्यतिवक्तीति ङः। डे वचरित्युमागमः। अवोचत॥श्रन्थिग्रन्थ्योश्चौरादिकयोरभावपक्षे श्रन्थते, ग्रन्थते ग्रन्थ इत्यत्र कर्मणः कर्तृत्वविवक्षा । तत्राख्यातेनोक्तत्वात्प्रथमा। लुङि अश्रन्थिष्ट । अग्रन्थिष्ट ।यादिकयोस्तु श्रथ्नीते ग्रथ्नीते च मेखला स्वयमेव ॥ आत्मनेपदविधौ योऽकर्मकस्तमुदाहरति । विकुर्वते सैन्धवा इत्यत्राकर्मकाच्चेत्यनेनाद्विधानम् । आख्यातेनोक्तत्वात्कर्मकर्तरि प्रथमा भवतीत्यर्थः ॥ लुङि इण्वदिटि व्यकारिष्ट, व्यकारिषाताम्, व्यकारिषत । इण्वदिडभावे लोपो ह्रस्वादिति सिलोपः । व्यकृत । व्यकृषाताम्। व्यकृषत ॥
(तत्त्वदी०)-जीत्यादि ॥ श्रन्थिग्रन्थ्योर्डरभावे ग्रहणम् । आदित्यात्मनेपदिनो ग्रहण न वादन्तस्य । आत्मनेपदविधौ योऽकर्मकस्तमुदाहरति । विकुर्वते सैन्धवा इति ॥
(कुषिरोः कर्म कर्तरिवा तिबादौ ) कुष्यति, कुष्यते वा पादः। अकोषि ॥ रज्यात रज्यते वा वस्त्रम् । अरञ्जि ॥ इति कर्म कर्तृप्रक्रिया ॥
(सुबोधिनी)-कुषिरोः कर्मकर्तरि वा तिबादा॥कुषिरनिभ्यामुभयपदं भवति कर्मकर्त्तर्यर्थ तिबादिचतुष्टये परतः।अनपि त्वात्मनेपदमेव भवति ।कुष निष्कर्षे ।
यादिकः । रञ्ज रागे । देवादिकः ॥ कुष्यति, कुष्यते वा पाद इत्यत्र कर्मणः कर्तृत्वविवक्षायामाख्यातः । कर्तुः कर्मवद्भावादात्मनेपदादिः । लुङि इणतनीतीण् । अकोषि । रज्यति, रज्यते वा वस्त्रमित्यत्रापि कर्मकर्तर्याख्यातः।तत्राख्यातेनोक्तत्वात्प्रथमा। लुङि अरञ्जि, अरङ्क्षाताम्, अरङ्क्षत । इह कर्मकर्तृप्रकरणे भिद्यते काष्ठं स्वयमेवेत्यादि