________________
[ आख्याते लकारार्थप्र० ]
टीकाद्वयोपेता ।
( २०१)
सर्वत्र स्वयंशब्दः करणार्थको ज्ञयः । आत्मना करणेनेत्यर्थः । कर्त्रर्थे तु कर्मण्याख्यातः स्यादित्यर्थः ॥ इति सुबोधिन्यां कर्मकर्तृप्रक्रिया ॥
(तत्त्वदी०) कृतायामिह टीकायां लोकेशकरशर्मणा । बाधनं दुष्टबुद्धीनामगाद्भावादिसाधनम् ॥ इति तत्त्वदीपिकायां कर्मकर्तृप्रक्रिया ॥ ९ ॥
अथ लकारार्थप्रक्रिया |
( स्मृतिवाचिन्युपपदे भूतानद्यतने धातोर्लट् लङोऽपवादः ) स्मरसि कृष्ण गोकुल वत्स्यामः ॥
(सुबोधिनी) - स्मृतिवाचिन्युपपदे भूतानद्यतने धातोर्लट् ॥ धातोर्लड् भवति स्मृतिवाचकशब्दे उपपदे सति न लङ् ॥ वत्स्यामः । वयमवसाम इत्यर्थः ॥ एवं बुध्यसे चेतयसे इत्यादियोगेऽपि ॥
(तत्त्वदी ० ) - स्मृतिवाचिनीत्यादि ॥ स्मृतिवाचिनीत्युक्तेर्बुध्यसे चेतयसे इत्यादियोगेऽपि न भवति। एषामपि प्रकरणादिना स्मृतिवाचित्वात् ॥ स्मरसीत्यादि ॥ अत्र पश्य मृगो धावतीतिवाक्यार्थस्य कर्मता बोध्या ।।
( यद्योगे उक्तं न ) अभिजानासि कृष्ण यद्वनेऽभुमहि ॥
(सुबोधिनी ) - यद्योगे उक्तं न॥स्मृतिवाचकशब्दे उपपदे सत्यपि यच्छब्दयोगे भूतानद्यतने लुटू न भवति किं तु लडेव ॥
(तत्त्वदी०) - अभीत्यादि ॥ अत्र लडेव न तु ऌट् ॥ ( उत्तमपुरुषे चित्तविक्षेपादिना पारोक्ष्यम् ) सुप्तोऽहं किल विललाप ॥
(सुबोधिनी ) - उत्तमपुरुषे चित्तविक्षेपादिना पारोक्ष्यम् ॥ मदस्वमादिभिः कश्चित्स्वान्तगतमेव न वेत्ति, पश्चादन्येभ्यः श्रुत्वा प्रयुङ्क्ते । किलशब्दोऽज्ञानसूचकः t सुप्तः सन्नहं विललापेति ॥
(तत्त्वदी०) उत्तमपुरुषेत्यादि । अत्र यद्यपि बुद्धीन्द्रियशरीरादिसंघातरूपस्य कर्तुरात्मनः प्रत्यक्षतैव तथापि मदस्वप्नादिभिश्च विक्षिप्ते चित्ते कश्चित्स्वगतमेव न वेत्ति पश्चादन्येभ्यः श्रुत्वा प्रयुङ्क्ते सुप्तोऽहमित्यादि । किलेत्यज्ञानं सूचयति ॥
( अत्यन्तापह्नवे लिट् ) कलिङ्गेष्ववात्सीः । नाहं कलिगाञ्जगाम ॥ (सुबोधिनी) - अत्यन्तापह्नवे लिट् ॥ अत्यन्तापलापेऽर्थे लिड् भवति ॥ कलिङ्गो नाम निषिद्धो देशः । उक्तं च- "अङ्गवङ्गकलिङ्गेषु सौराष्ट्रमगधेषु च । तीर्थयात्रां विना गत्वा पुनः संस्कारमर्हति ॥” इति ॥ केनचित्कश्चित्पृष्टः त्वं कलिङ्गेषु अवात्सीः तत्र