________________
(२०२)
सिद्धान्तचन्द्रिका। [ आख्याते लकारार्थप्र० ] गत्वा त्वया चिरं स्थितामत्यर्थः। स आह नाहं कलिङ्गान् जगामेति। केवलमवस्थानमेव न निषिध्यते किंतु तद्धेतुभूतं गमनमपीत्यत्यन्तापह्नवो भवति ॥
(तत्त्वदी०)अत्यन्तापह्नव इति ॥ अपह्नवोऽपलापः ॥ नाहमित्यादि॥ कलिङ्गस्य तु जुगुप्सितत्वेन तत्र त्वया चिरं स्थितमित्युक्तः कश्चिद्गमनमेव निषेधतीत्यत्रास्त्यत्यन्तापह्नवः । यदा तु गमनमेवायुक्तं तदेवापलपति तदा लडेवात्यन्तापह्नवाभावात् ॥
(हशश्वतोलिडिषये ललिटौ) इति हाकरोत, चकार वा । शश्वदकरोत्, चकार वा॥ ( सुबोधिनी)-हशश्वतोलिद्विषये ललिटौ। हशश्वन्निपातयोोंगे लिडर्थे ललिटौ भवतः।
(आसन्नकाले पृच्छयमानेऽर्थे ललिटौ) अगच्छत् किम् । जगाम किम् । अनासन्ने तु कंसं जघान किम् ॥
(सुबोधिनी)-आसन्नकाले पृच्छयमानेऽर्थे ललिटौ॥ आसन्नकालिके भूतानद्यतनपरोक्षवृत्तिधात्वर्थे प्रष्टव्ये ललिटौ भवतः। पञ्चवर्षाभ्यन्तर आसन्नकालः। पश्चवर्षातीतो विप्रकृष्टकालः ॥ पृच्छयमाने किम् । जगादेवम् । लिडेव॥ अनासन्ने तु लिडेव । कंसं जघान किम् ॥ (तत्त्वदी०)-आसन्नेत्यादि॥पञ्चवर्षाभ्यन्तरमासन्नकालम् ,पञ्चवर्षातीतं विप्रकृष्टकालं वर्णयन्ति॥
(स्मे लट् लिटोऽपवादः) यजति स्म युधिष्ठिरः॥ ( भूतानद्य
तने लट् स्मयोगे) एवं स्म पिता ब्रवीति ॥ __ (सुबोधिनी)-स्मे लट॥स्मयोगे लड भवाति, न तु लिट् । स्मेत्यव्ययं भूतकालद्योतकम् । भूतानद्यतने लट्स्म योगे । लङोऽपवादः॥ब्रवीति स्म।अब्रवीदित्यर्थः॥
(ननौ पृष्टप्रतिवचने भूते लट्)अकार्षीःकिम्।ननु करोमिभोः॥ (सुबोधिनी) ननौ पृष्टप्रतिवचने भूते लट् ॥ पृच्छयते इति पृष्टः । कर्मणि क्तः। पृष्टस्य प्रतिवचनं पृष्टप्रतिवचनमिति पष्ठीसमासः । भावे क्तप्रत्यये तु पृष्टं प्रश्नः। पृष्टपूर्व च तत्प्रतिवचनं च पृष्टप्रतिवचनमिति मध्यमपदलोपी समासः । ननु करोमि । अकार्षमित्यर्थः ॥
(तत्त्वदी०)-ननाविति ॥ पृष्टेति कर्मणि क्तः । पृष्टस्य प्रतिवचनं पृष्टप्रतिवचनमिति षष्ठीसमासः । भावे तु पृष्टं प्रश्नस्तत्पूर्व प्रतिवचनमित्युत्तरपदलोपी समासः ।।
(नन्वोर्वा) अकार्षीः किम् । न करोमि । नाकार्षम् । अहं नु करोमि । अहं न्वकार्षम् ॥