________________
[ आख्याते लकारार्थप्र० ] टीकाद्वयोपेता। (२०३)
(सुबोधिनी)-नन्वोर्वाननुनिपातयोोंगे पृष्टपतिवचने भूते वा लङ् भवति । पक्षे लुङ्लिटौ॥
(पुराशब्दयोगे भूतानद्यतने वा लुङ्लटौ न तु स्मयोगे) वसन्तीह पुरा छात्राः, अवात्सुः, अवसन्, ऊषुर्वा ॥ स्मेति किम् । यजति स्म पुरा युधिष्ठिरः॥
(सुबोधिनी)-पुराशब्दयोगे भूतानद्यतने वा लुङ्लटौ न तु स्मयोगे॥ पक्षे ललिटौ ॥ स्मेति किम् । यजति स्म पुरा युधिष्ठिरः॥
( यावत्पुरानिपातयोर्भविष्यति लट् )यावद्भुङ्क्ते । पुरा भुङ्क्त। भोक्ष्यसे, भोक्ता, वा ॥ ( कदाको भविष्यति लट्) कदा कर्हि वा भुक्ते, भाक्ष्यसे, भोक्ता वा ॥ (सुबोधिनी)-यावत्पुरानिपातयोर्भविष्यात लट्र ॥ यावद्भक्ते । निश्चितं भोक्ष्यत इत्यर्थः ॥ निपातावेतौ निश्चयं द्योतयतः ॥ निपातयोः किम् । यावद्दास्यते. तावद्भोक्ष्यते । करणभूतया पुरा यास्यात ॥
(वर्तमानसामीप्ये भूते भविष्यति च वर्तमानवद्वा)कदाऽऽगतोऽसि । अयमागच्छामि, अयमागमम् । कदा गमिष्यसि । एष गच्छामि, गमिष्यामि वा ॥
(सुबोधिनी)-वर्तमानसामीप्ये भूते भविष्यति च वर्तमानवद्वा॥ कदाऽऽगतोऽसीति भूतकाले प्रश्नवाक्यम्। अयमागच्छामीत्युत्तरंभूतकालाभिव्यक्तये। अयमिति प्रयोगस्त्विदानीमेवागममिति वर्तमानसमीपभूतकालद्योतनायोतेन ह्यागमना' दिना भूतं रूपं यदलीधूसरताप्रस्वेदादियुक्तं तत्प्रतिनिर्दिश्यते। एवं कदा गमिष्यसीति भविष्यत्काले प्रश्नवाक्यम् । एष गच्छामीत्युत्तरं भविष्यत्कालाभिव्यक्तये । एष इति. प्रयोगस्त्विदानीमेव गमिष्यामीति वर्तमानसमीपभविष्यत्कालद्योतनाय। तेन हि गमनेन विना भूतं यत्परिकरबन्धादियुक्तं तत्प्रतिनिर्दिश्यते । तत्र कदेति प्रश्न उत्तरवाक्ययोः कालानुपादानादयमेषशब्दाभ्यामिदानीमिति कालावगमः ॥
(तत्त्वदी० )-अयमागच्छामीत्यादि ॥ अयमेषपदाभ्यामागमनादिना भूतं यद्रूपं प्रस्वेदादियुक्तं तत्प्रतिनिर्दिश्यते । इदानीमागममित्यर्थः ॥
(क्षिप्रवचने लुटू ) वृष्टिश्चेत्क्षिप्रमाशु त्वरितं वा यास्यति तदा शीघ्रं वप्स्यामः॥
( सुबोधिनी )-क्षिप्रवचने लट्रवचनग्रहणं स्वरूपग्रहणनिरासार्थम्। क्षिप्रपर्याय उपपदे लूट ॥