________________
(२०४)
सिद्धान्तचन्द्रिका। [ आख्याते लकारार्थप्र० । (तत्त्वदी०)--क्षिप्रेति ॥ क्षिप्रपर्यायस्यापि ग्रहणं न तु स्वरूपस्यैव ॥
(गर्हायां लडपिजात्वोः कालत्रये) अपि जायां त्यजसि । जातु गणिकामाधत्से ॥ ___ (सुबोधिनी)-गर्हायां लडपिजात्वोः कालत्रये॥आभ्यां योगे लट् स्याद्ग हयां कालत्रये । परत्वाल्लङादीनयं बाधते ॥ अपि जयां त्यजसि । त्यक्ष्यसि, अत्याक्षीः इत्यादिविषये त्यजसीत्यादि लडेव प्रयुज्यत इति भावः॥ एवं यो जायामत्यजत्, तत्याज, त्यक्ष्यति, अत्याक्षीदित्यादिविषय यो जायामपि त्यजति, जातु गणिकामाधत्ते गर्हितमेतत् ।।
(तत्त्वदी०)--जातु गणिकामिति । गर्हितमेतत् ॥ (वा कथमि लिङ्लटौ गर्दायां कालत्रये) कथं धर्म त्यजेस्त्यजसि वा ॥
(सुबोधिनी)-वा कथमि लिङ्लटो गायां कालत्रये॥पक्ष ललिटुलुट्लुलुङ्लुङः । भूतानद्यतने लङ् । कथं धर्ममत्यजः। परोक्षानद्यतने भूते लिट् । कथं धर्म तत्यक्थ । भविष्यत्यनद्यतने लुट् । कथं धर्म त्यक्तासि । भविष्यत्सामान्ये लृट् । कथं धर्म त्यक्ष्यसि । क्रियातिक्रमणे लुङ् । कथं धर्ममत्यक्ष्यः। भूतसामान्ये लुङ् । कथं धर्ममत्याक्षीः ॥
(जातुयद्यदायदियोगे लिङ् लुटोऽपवादः) जातु यढ़ यदा यदि वा त्वादृशो हरिं निन्देत् नावकल्पयामि, न मर्षयामि ॥
(सुबोधिनी)--जातुयद्यदायदियोगे लिङ्लूटोऽपवादः॥अनवक्लप्त्यमर्षयोलिङ् स्यादेषां योगे । अनवक्लप्तिरसम्भावना । अमर्षोऽक्षमा लटोऽपवादः, लङ तु क्रियानिष्पत्तौ भूते वा, भविष्यति तु नित्यमित्यर्थः ॥ जातु भवान् हरिमनिन्दिष्यदित्यायुदाहर्तव्यम् । अगस्यामिदम्, गर्दायां तु जातुयांगे लडुक्तः ॥ __ (तत्त्वदी०)-नावकल्पयामीत्यादि ॥ अनवक्लप्तिरसंभावना ॥ अमर्षोऽक्षमा ।।
उताप्योर्बाढार्थयोलिङ् ॥ समर्थयोरनयोलिङ् कालत्रये ॥ उन अपि वा हन्यादघं हरिः॥ बाढार्थयोरिति किम् । उत दण्डः पतिष्यति । अपिधास्यति द्वारम् ॥
(सुबोधिनी)-उताप्यो ढार्थयोलिनासमर्थयोरनयोोंगे लिङकालत्रये।। बाढार्थयोः किम् । उत दण्डः पतिष्यति । अपिधास्यति द्वारम् । अत्र प्रश्न आच्छादनं च गम्यते ॥ (तत्त्वदी०) समर्थयोरिति ॥ समोऽर्थों ययोस्तौ तयोः । हलादित्वाहिलोपः । सम्शब्द एव वा तुल्यार्थे । बाढमित्यर्थेऽनयोस्तुल्यार्थता। उत दण्ड इत्यादि ॥ प्रश्न आच्छादनं चार्थः।।