SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ [ आख्याते लकारार्थप्र० ] टीकाद्वयोपेता । (२०५) (स्वाभिप्रायाविष्करणे गम्ये लिङ् कालत्रये न तु कच्चिति) कामो मे भुञ्जीत भवानिति ॥ न तु कच्चितीति किम् । कच्चिज्जीवति मे माता ॥ (सुबोधिनी) स्वाभिप्रायाविष्करणेगम्ये लिङकालत्रये न तुकञ्चिति॥ सर्वलकारापवादः॥ न तु कच्चितीति किम् । कामो मे कच्चिज्जीवति । वर्तमान-- सामीप्ये इति लट् ॥ (हेतुहेतुमतोभविष्यति लिड वा ) कृष्णं नमेच्चत्सुखं यायात् । कृष्णं नस्यति चेत्सुखं यास्यति ॥ (सुबोधिनी) हेतुहेतुमतोभविष्यति लिङवा ॥ हेतुः कारणम्। हेतुमत्फलम् । पक्षे लट । कृष्णं नमेच्चेत्सुखं यायात् । कृष्णनतिः सुखप्राप्तेर्हेतुः । भविष्य- . त्येवेष्यते । नेह हन्तीति पलायते ॥ .( तत्त्वदी० ) हेतुहेतुमतोरिति ॥ हेतुः कारणम् । हेतुमत्फलम् ॥ कृष्णमित्यादि । नमनमात्रं हेतुः । सुखप्राप्तिः फलम् ॥ __(इच्छार्थेषु लिङ्लोटौ कामप्रवेदने ) इच्छामि भुञ्जीत, भुक्तां वा भवान् ॥ (सुबोधिनी)-इच्छार्थेषु लिङ्लोटौ कामप्रवेदने ॥ काम इच्छा तस्य प्रवेदनं प्रकाशनं तस्मिन्नर्थे ॥ (तत्त्वदी० (-कामप्रवेदन इति ॥ काम इच्छा । प्रवेदन प्रकाशनम् ॥ (इच्छार्थेभ्यो लिङ्लटौ वर्तमानेऽर्थे ) कामयेत । कामयते ॥ (सुबोधिनी )--इच्छार्थेभ्यो लिङ्लटौ॥ वर्तमाने इति शेषः । इच्छ:ऽर्थो येषां ते इच्छार्थास्तेभ्यः । तेन वश कान्तावित्यादयोऽपीच्छार्था ग्राह्याः॥ (तत्त्वदी) इच्छार्थेभ्य इति ॥ इच्छा अर्थो येषां ते इच्छार्थाः । तेन वश कान्तौ इत्यादयोऽपीच्छार्था ग्राह्याः ॥ (पौनःपुन्ये भृशार्थे च धातार्लोद सर्वलकारविषये तस्य हिस्वौ सर्वतुबादिविषये तध्वमोर्विषये वा क्रियासमभिहारे द्वित्वं तस्यैव धातोरनुप्रयोगश्च ) (सुबोधिनी)-पौनःपुन्ये भृशार्थे च धातोर्लोट सर्वलकारविषये तस्य हिस्वौ सर्वतुबादिविषये तध्वमोविषये वा।पौनःपुन्यं भृशार्थश्च धातोरेवार्थः। लोट् द्योतक इति भावः॥किं च तुवादीनामादेशत्वेऽपि तेषां स्थाने विहितस्य हे स्थानिवद्भावेन पित्त्वात्। ङिच्च पिन्न पिच्च डिन्न'इति भाष्योक्तत्वात ङित्त्वाभावेलुनीही
SR No.002415
Book TitleSiddhant Chandrika Uttararddham
Original Sutra AuthorN/A
AuthorKshemraj Shrikrishnadas Shreshthi
PublisherKshemraj Shrikrishnadas Shreshthi
Publication Year1850
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy