SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ (२०६) सिद्धान्तचन्द्रिका। [आख्याते लकारार्थप्र०] त्यत्र ईहसे इतीत्वं न स्यात् तृण्ढि इत्यत्र तु तृहो नमि कृते, इमागमः पितीतीमागम तृणेढि इति च स्यात् । अतो लोटो हिस्वावित्युक्तम् । सकलपुरुवचनविषये परस्मै। पदिभ्यो हिः कर्तरि। आत्मनेपदिभ्यः स्वो भावकर्मकर्तृषु।क्रियासमभिहारे इति द्वित्वम्। यस्माद्धातोलॉड्डिहितस्तस्यैव धातोरनुप्रयोगश्च कर्तव्यः ।अनुप्रयोगाद्यथायथं लडादय.. स्तिवादयश्च कर्तव्याः।ततः संख्याकालयोः पुरुषविशेषार्थस्य चाभिव्यक्तिर्भवति।अत्र लोडन्तीवषय संख्याकारकादीनां स्वान्तादप्रतीतिस्तद्धोधनायानुप्रयोगो न्यायत एव। याहि याहीति याति, यातः यान्ति। यासि । पुनःपुनरतिशयेन वा यानं हिप्रत्ययान्तस्यार्थः । एककर्तृकं वर्तमानं यानं यातीत्यस्यार्थः ॥ इतिशब्दस्त्वभेदान्वये तात्पर्य ग्राहयति । मध्यमपुरुषबहुवचने तशब्दे तु यात यातेति यूयं याथ । पक्षे याहि याहीति यूयं याथ । एवं भूतभविष्यतोरप्युदाहरणम् । याहि याहीति यास्यति । याहि याहीत्ययासीत् । मध्यमपुरुषबहुवचने ध्वशब्दे तु अधीध्वमधीध्वमिति यूयमधीध्व।पक्षे अधीवाधीष्वेत्यधीष्व । भावकर्मणोस्तु भूयस्व भूयस्वेति भूयतेोपच्यस्व पच्यस्वति पच्यते। गद्यस्वगद्यस्वेति गद्यते । भज्यस्वभज्यस्वोत भज्यते । इत्यादि ज्ञेयम् ॥ (तत्त्वदी०)-पौनःपुन्ये भृशार्थे चेति ॥ पुनःपुनर्भावः पौनःपुन्यम् । भृशार्थोऽतिशयार्थः । एतद्विशिष्टक्रियावचनाद्धातोरित्यर्थः ॥ क्रियासमभिहारे द्वित्वमिति॥पौनःपुन्ये भृशार्थे चेत्यर्थः॥परस्मैपदिभ्यो हिः कर्तरि, आत्मनेपदिभ्यः स्वः भावकर्मकर्तृषु सकलपुरुषवचनविषये। याहि याहीतियातीति॥ पुनःपुनरतिशयेन वा यानं लोडन्तस्यार्थः।एककर्तृकं वर्तमानंयानं तिबन्तस्य । कालपुरुषविशेषाभिव्यक्तिः सर्वत्र तु प्रयोगादेव बोध्या। इतिशब्दोऽभेदान्वयद्योतकः भविष्यद्भूतयोरप्युदाहरति ॥ यास्यतीत्यादि ॥ स्वमुदाहरति ॥ अधीष्वेत्यादि । (अनेकक्रियासमुच्चये वा लोट् तस्य हिस्वौ तध्वमोर्विषये वा) समानार्थस्य धातोरनुप्रयोगात्तिबादयः। याहि याहीति याति । एवं यातः, यान्ति । यासि, याथः, याथ । यात यातेति । यूयं याथ । यामि । यावः । यामः । याहियाहीति यास्यति । अयासीत् ॥ अधीष्वाधीष्वेत्यधीते । एवमन्यत्रापि । ध्वंविषये प्राग्वत् । पक्षे अधीध्वमधीध्वमिति यूयमधीध्वे ॥ सक्तून् पिब, धानाः खादेत्यभ्यवहरति । पिबत खादतेत्यभ्यवहरथाअन्नं भुक्ष्व, दाधिकमास्वादयस्वेत्यभ्यवहरते । भुङ्ग्ध्वमास्वादयध्वमित्यभ्यवहरध्वे ॥ इति लकारार्थप्रक्रिया ॥ इत्याख्यातप्रक्रिया ॥ (सुबोधिनी)-अनेकक्रियासमुच्चये तु वा लोट् तस्य हिस्वौ तध्वमोविषये वा ॥समानार्थस्य धातोरनुप्रयोगात्तिबादयः ॥ चिनोतेर्भाव स्वराद इत्यप्रत्यये कृते समुच्चीयते इति समुच्चयः । अस्मिन् सूत्रे पौनःपुन्ये भृशार्थ चेत्यननुवर्तनादित्वमकृत्वैवोदाहरति सक्तून्पिवेत्यादि।तध्वमोस्तु पिबत खादतोत यूयमभ्यवहरथा पक्षे
SR No.002415
Book TitleSiddhant Chandrika Uttararddham
Original Sutra AuthorN/A
AuthorKshemraj Shrikrishnadas Shreshthi
PublisherKshemraj Shrikrishnadas Shreshthi
Publication Year1850
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy