SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ [ आख्याते लकरार्थप्र०] टीकाद्वयोपेता । (२०७) पिव खादोत यूयमभ्यवहरथ । भुङ्ग्ध्वमास्वादयध्वमिति यूयमभ्यवहरध्वम् । पक्ष भुक्ष्व, आस्वादयस्वेति यूयमभ्यवहरध्वम् । लोडभावपक्षे सक्तून् पिबति । धानाः खादति । अन्नं भुङ्क्ते । दाधिकमास्वादयते । 'धाना भृष्टयवे स्त्रियाम् ।' इत्यमरः ।। दध्ना संस्कृतं दाधिकं व्यञ्जनादि । एतेन 'पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामराङ्गनाः । विगृह्य चक्रे नमुचिद्विषा बली य इत्थमस्वास्थ्यमहदिवं दिवः" इति व्याख्यातम् । अवस्कन्दनलवनादिरूपा भूतानाद्यतनपरोक्षा एककर्तृका अस्वास्थ्यक्रियेत्यथात् । इह पुनःथुनश्चस्कन्देत्यादिरर्थ इति तु व्याख्यानं भ्रममूलकमेव ॥ द्वितीयसत्रे क्रियासमभिहारे इत्यस्याननुवृत्तेः, लोडन्तस्य द्वित्वापत्तेश्च । पुरीमवस्कन्देत्यादि मध्यमपुरुषैकवचनमित्यपि केषांचिद् भ्रम एव । पुरुषवचनसंज्ञ इह नेत्युक्तत्वात् ॥ इति सुबोधिन्यां लकारार्थप्रक्रिया ॥ बुद्धिमान्द्यवशात्किंचिद्यदशुद्धमलेखि तत् । द्वेषभावं समुत्सृज्य शोधनीयं मनीषिभिः ॥ इति श्रीसिद्धान्तचन्द्रिकाव्याख्यायां सदानन्याख्यायामाख्यातप्रक्रिया समाप्ता। (तत्त्वदी० )-सक्तून् पिबेत्यादि ॥ सक्तून् पिब सक्तुपानादिकं करोतीत्यर्थः । एवं पुरीमवस्कन्द लुनीहि नन्दनमित्यादि व्याख्येयम् । अवचस्कन्द लुलावेत्यादि । यत्तु वासुदेवादिभिरतिशयेन पुनःपुनर्वाऽवचस्कन्देत्यादि व्याख्यातं तदसत् । अनेकक्रियासमुच्चये क्रियासभिहारेऽस्यानुक्तेः, लोडन्तद्वित्वापत्तेश्च ॥ इति तत्त्वदीपिकायां लकारार्थप्रक्रिया ॥ १० ॥ ____ कृतायामिह टीकायां लोकेशकरशर्मणा । अगादगाधबुद्धीनां कृतमाख्यातसाधनम् ॥ इति श्रीलोकेशकरविरचितायां सिद्धान्तचन्द्रिकाव्याख्यायां तत्त्वदीपिकायामाख्यातप्रक्रिया संपूर्णा । इत्याख्यातप्रक्रिया समाप्ता ॥ Hin :
SR No.002415
Book TitleSiddhant Chandrika Uttararddham
Original Sutra AuthorN/A
AuthorKshemraj Shrikrishnadas Shreshthi
PublisherKshemraj Shrikrishnadas Shreshthi
Publication Year1850
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy