________________
अथ पूर्वकृदन्तप्रक्रिया। ---
--- कृत्करि ॥वक्ष्यमाणाः प्रत्ययाः कृत्संज्ञकास्ते च कर्तरि भवन्ति॥
सुबोधिनीप्रतोष्टूय्य जगन्नाथं सदानन्देन स मुदा ॥
सिद्धान्तचन्द्रिकावृत्तिः क्रियते कृत्प्रकाशिका ॥१॥ कृत्कार ॥ उत्सर्गतः कर्तरीति बोध्यम् ॥ (तत्त्वदीपिका )-कृत्कर्तरीति ॥ उत्सर्गतः कर्तरी ते बोध्यम् ॥ तृणौं ॥धातोः । पक्ता ॥ ( सुबोधिनी)-तृवुणौ ॥धातोरेतौ स्तः॥ कर्तरितप्रत्ययमाह--पचतीति विग्रहे चोः कुरिति कः। कृत्तद्धितेति नामसंज्ञायां स्यादिविभक्तः । सेरा इति सेरात्वं टिलोपश्च । पक्ता पाकानुकूल कृतिमान्देवदत्त इत्यर्थः ।
(तत्त्वदी०)-धातोरिति ॥ अधिकारादिदं लब्धमित्य शयः ॥ पक्तेति ॥ पचतीति वाक्यम् । चोः कुरिति कुत्वम् ॥
कृतः ॥ वसादेः कृत इट् ॥ कुटिता ॥ एधते इति एधिता ॥ गोपायिता-गोपिता-गोप्ता । सहिता- सोढा । एषिता एष्टा ॥
(सुबोधिनी) कृतः॥धातोः परस्य वसादेः कृता त्ययस्येट्॥वसोऽत्र प्रत्याहारः। भवतीति भविता ॥कुट कौटिल्ये । तुदादः । कुटादणिदर्ज इति तृप्रत्ययस्य ङित्वान्न गुणः। कुटतीति कुटिता ॥ एधते इति एधिता ॥ गुपू रक्षणे । आयादयोऽनपीति वा आयः। आयपक्षे कृत इति नित्यमिट् । अन्यत्र उदितो वेति वेद । गोपायतीति-गोपायिता--गापिता--गोप्ता । षह मर्षणे । इषुसति वेट् । सहते इति सहिता। इडभावे हो ढः इति हस्य ढः । तथोध इति तस्य धः। श्रुत्वम् । ढि ढ इति ढलोपपूर्वदीर्यो । सहिवहोरित्योत्वम् । सोढा ॥ इषु इच्छायाम् । इषुसहेति वेट् । इच्छतीति एपिता। इडभावे ष्टुत्वम् ॥ एष्टा ॥
(तत्त्वदी०)-कृत इति॥वसादेरिति । वसप्रत्याहा आदिर्यस्य स तथा तस्य । कुटितेति ॥ ङित्त्वान्न गुणः ॥ सोढेति इषुसहेत्यादिना वेट् । त् त्वष्टुत्वढलोपाः।सहिवहोरित्योत्वम्।।
यवोरनाको ॥ वाचकः । पाचकः । भानकः॥ आतो युक् । दायकः। घातकः । जनकः । घटकः । दरिद्रायकः। कोटकः । शमकः । नियामकः॥