________________
[ पूर्वकृदन्तप्रक्रिया ] टीकाद्वयोपेता।
(२०९) (सुबोधिनी)-बुणप्रत्ययमाह । णकारो वृद्धयर्थः । युवोरनाकौ॥ युश्च वुश्चानयोः समाहारो युवुः तस्य युवोः।वक्तीति वाचकः॥पचति,पाचयतीति वा पाचकः॥ भवति, भावयतीति वा भावकः॥यदि ञ्यन्ताद्गुणविधिस्तदा बेरिति जिलोपःाददातीति आतो युगिति युक । दायकः।। हन्तीति । हनो घदिति घत् । घातकः ॥ जनी प्रादुर्भावे । देवादिकः। जन जनने । जुहोत्यादिः।जनयतीति। जनिवध्योरिति न वृद्धिः। जेरिति जिलोपः । जनकः॥ घटयतीति । मितां ह्रस्व इति ह्रस्वः। ओरिति जिलोपः। घटकः ॥ दरिद्रातीति । आतो युगिति युक् । दरिद्रायकः। तृप्रत्यये तु कृत इतीट् । दरिद्रातेरनपीत्यालोपः । दरिद्रिता ॥ कुट कौटिल्ये । कुटादेणिदर्ज इति वुणोऽङित्वादुपधाया लघोरिति गुणः । कुटतीति कोटकः ॥ शमु उपशमे । मान्तस्य सेटो नेति न वृद्धिः। शाम्यतीति शमकः ॥ यम उपरमे । नियच्छतीति । मान्तस्य सेट इति वृद्धिनिषेधस्तु न वर्तते अस्यानिट्वात् । नियामकः॥
(तत्त्वदी.)-युवोः॥ युश्च वुश्चेति समाहारः । नुम्त्वनित्यत्वान्न । दायक इति । आतो युगिति युक् ॥ जनक इति।। जनिवध्योरिति न वृद्धिः।। कोटक इति। णिवर्ज इति ङिवाभावाद् गुणः ।
(क्रमेः कर्तर्याद्विषयात्कृत इण्न ) प्रक्रन्ता ॥ (सुबोधिनी )-क्रमेः कर्तर्याद्विषयात्कृत इन ॥ आत्मनेपदविषयाक्रमः परस्य कर्तरि कृत्प्रत्ययस्येण्न भवति ॥ प्रोपाभ्यां प्रारम्भार्थाभ्यामिति क्रमेरात्मनेपद. विषयता । प्रक्रमते इति प्रऋन्ता । तृप्रत्ययः॥ कर्तरि किम् । प्रक्रम्यते इति प्रक्रमितव्यम् । आत्मनेपद इति किम् । संक्रामतीति संक्रमिता ॥ ( तत्त्वदी० )-प्रक्रन्तेति ॥ प्रोपाभ्यामित्याद्विषयता। (नाम्युपधात्कः) क्षिपः । बुधः । वृतः॥ (सुबोधिनी )-नाम्युपधात्कः ॥ कप्रत्ययमाह । प्रत्ययाद्या लशकवर्गा इत्सं. ज्ञका भवन्ति तद्धितवर्जम् ॥ कित्त्वाद् गुणो न । बोधतीति बुधः ॥ क्षिप प्रेरणे। क्षिपतीति क्षिपः॥ तृप्रत्यये तु क्षेप्ता । वुणि तु क्षेपकः । वर्तते इति वृतः॥
(तत्त्वदी०)-नाम्युपधादिति॥नामी अवर्णवजेः उपधा यस्य स तस्मात्॥ क्षिप इति॥ क्षिपतीति विग्रहः ॥
(प्रीकृज्ञाभ्यश्च ) नुधातोः । प्रियः। किरः । ज्ञः॥ ( सुबोधिनी)-प्रीकृज्ञाभ्यश्च ॥ एभ्योऽपि कः॥ प्रीज् तर्पणे । प्रीणातीति । नुधातोरितीम् । प्रियः ।। कृ विक्षेपे । किरतीति । ऋत इरितीर । किरः॥ जानातीति। आताऽनपीत्यालोपः। ज्ञः॥
१४