________________
(२१०)
सिद्धान्तचन्द्रिका । [ पूर्वकृदन्तप्रक्रिया ] (तत्त्वदी०)-त्रिय इति ॥ प्रीञ् तर्पणे । इय् ॥किर ति ॥ कृ विक्षेपे । ऋत इर् ॥ ज्ञ इति ॥ आतोऽनपीत्यालोपः ।।
(उपसर्गे आदन्तात् ) प्रदः । सुज्ञः। सुलः॥ (सुबोधिनी)-उपसर्गे आदन्तात्॥ उपसर्गे पूर्व पदे आदन्ताद्धातोः कः॥प्रद दातीति । आतोऽनपीत्यालोपः । प्रदः॥ मुष्ठु जानातीति सुज्ञः ॥ ग्लै हर्षाये।सुष्टु ग्लायतीति सुग्लः ॥
(पचिनन्दिग्रहादेरयुणिनि ) पचादेरः। मन्द्यादेर्युः।ग्रहादेणिनिः॥ पचः । वदः । चलः । पतः। चरः॥ __ (सुबोधिनी)-पचिनन्दिग्रहादेरयुणिनि ॥द्वंद्वान्ते श्रूयमाणः शब्दः प्रत्येक संबद्धयत इत्यादिशब्दः प्रत्येक योज्यः ॥ पचादे तरिप्रत्ययः । नन्द्यादे तोर्युप्रत्ययः । ग्रहादे तोणिनिप्रत्ययः ॥ अप्रत्ययमाह-पच गति पचः । वदतीति वदः । चल संचलन । चलतीति चलः । पल पतने । पतती । पतः ॥ चरतीति चरः॥
(तत्त्वदी० )-पचिनन्दिग्रहादेरित्यादि ॥ द्वन्द्वा ते श्रयमाणस्यादिशब्दस्य प्रत्येक योगः । अश्च युश्च णिनिश्चति समाहारद्वन्द्वः । एते च गणा न धातुपाठे पठयन्ते किंतु नन्दनरमण इत्येवमादिषु नामगणेष्वेवोदाहृय प्रकृतयो निर्दिश्यत इति ॥ पच इति । पचतीति वाक्यम् । पचादिराकृतिगणः ॥
(चरिचलिपतिवदीनां वा द्वित्वं पूर्वस्यागप्रत्यये ) चराचरः। चलाचलः। पतापतः । वदावदः॥ ___ (सुबोधिनी) चरिचलिपतिवदीनां वा द्वित्वं पूर्वस्यागप्रत्यये ॥ अत्र हस्व इति ह्रस्वः पूर्वस्य हसादिश्शेष इत्यादिशेषश्च न भवति। आगमस्य दीर्घत्वसामर्थ्यात् ॥ चराचर इत्यादि ॥
(तत्त्वदी०)-चरिचलीत्यादि॥ चराचर इत्य दि॥आगागमविधानसामर्थ्याद्धसादिः शेष इति न । तथा हि सति तस्मिन्नागमादेशयोर्विशेषो न रात् । दोबत्वविधैर्हस्वोऽपि न ॥ - (हन्तहस्य घत्वं च ) घनाघनः॥
(सुबोधिनी) हन्तेर्हस्य घत्वं च ॥ हन्तेद्वित्वं पूर्वस्य हस्य घत्वं वाऽप्रत्यये चकारात्पूर्वस्थाक, उत्तरहस्य तु पूर्वाद्धन्तरिति घः । धनाधनः ॥
(तत्त्वदी०)-हन्तेः ॥ हन्तेः पूर्वस्यैव, उत्तरस्य तु पूर्वादित्यनेनैव सिद्धम् । चकारात्पूर्वोक्तमपि ॥
(पाटलुिक् चोक् च दीर्घश्च पूर्व) पाटूपटः। हनःपाटः । नन्दनः । वामनः। क्रमणः । दूषणः । साधतः । वर्धनः । शोभनः। रोचनः । रावणः । सहनः। तपनः । दमनः। जल्पनः । लवणः ।