________________
[ पूर्वकृदन्तप्रक्रिया ]
टीकाद्वयोपेता ।
(२११)
णत्वं निपात्यम् । कोचनः । कुच शब्दे चुरादिः ॥ म्लेच्छ अव्यक्त शब्दे । म्लेच्छनः । ग्राही । उत्साही । उद्भासी । स्थायी । छायी । पायी । मन्त्री । अयाची । अवाची । अपराधी ॥
(सुबोधिनी) -- पाटेर्जिलुक चोक दीर्घश्च पूर्वस्य ॥ यद्यपि नेरित्यनेनैव ञिलोपः सिद्धस्तथापि प्रत्ययलक्षणेनोपधाया वृद्धिर्मा भूदित्येवमर्थं लुक्करणम् । पूर्व ञिलुक्क़-ततो द्वित्वम्। तत ऊगागमपूर्वदीर्घौ स्तः ॥ पाटयतीति पाटूपटः । इहापि हस्वहसादिशेषयोरभावः ॥ पक्षे हन्तीति हनः ॥ जेरिति ञिलोपः । पाटः ॥ युप्रत्ययमाहयुवोरित्यनादेशः । टुणदि समृद्धौ । नन्दयतीति । जेरिति ञिलोपः । नन्दनः ॥ टुवम् उद्गिरणे । ग्लास्नावनुवमां चेति वैकल्पिक मित्त्वाभावे वामयतीति वामनः । दुष वैकृत्ये । दुषेञविति दीर्घः । जेरिति ञिलोपः । दूषयतीति दूषणः ॥ साध संसिद्धौ । साध्यति साधयतीति वा साधनः ॥ वृधु वृद्धौ । वर्धते इति वर्धनः ॥ शोभते इति शोभनः ॥ रोचते इति रोचनः ॥ रु शब्दे । रावयतीति । जेरिति ञिलोपः । रावणः ॥ षह मर्षणे। सहते इति सहनः ॥ तप ऐश्वर्ये । दैवादिकः । तप्यते इति तपनः ॥ दाम्यतीति दमनः ॥ जल्पतीति जल्पनः ॥ लुनातीति लवणः । नन्द्यादिगणे निपातनाण्णत्वम् ॥ कुच शब्दे कोचनः ॥ म्लेच्छ अव्यक्ते शब्दे । म्लेच्छतीति म्लेच्छनः ॥ णिनिप्रत्ययमाह-प्रत्ययाद्यौ चवर्गटवर्गावितौ स्त इति णित्त्वादत उपधाया इति वृद्धिः । गृह्णातीति । इनामिति सौ दीर्घः । नाम्नो न इति नलोपः । ग्राही ॥ पह मर्षणे । उत्सहते इति उत्साही ॥ उद्भासते इति उद्भासी ॥ तिष्ठतीति । आतो युगिति युक् । स्थायी ॥ छो छेदने । छयतीति छायी ॥ पिवतीति पायी ॥ मत्रि गुप्तभाषणे चुरादिः । मन्त्रयतीति जेरिति ञिलोपः । मन्त्री ॥ टु याच याच्ञायाम् । न याचते इति ना इति । नञोऽदादेशः । अयाची ॥ न वदतीति अवादी ॥ राध संसिद्धौ । अपराध्यतीति अपराधी ॥
(तत्त्वदी ० ) - पाटेरिति ॥ यद्यपि नेरित्यनेनैव त्रिलोपः सिद्धस्तथापि प्रत्ययलक्षणेनोपधावृद्धिर्मा भूदित्येवमर्थं लुक्करणम् ॥ पाटूपट इति ॥ पूर्ववद्धसादिशेषहस्त्रयोरभावः । नन्दन इति ॥ नन्दयतीति विग्रहः। टुणदि समृद्धौ । युवोरित्यनः । दूषयतीति वाक्यम् । दुष वैकृत्ये । दुषेर्णाविति दीर्घः॥
दृशादेः शः ॥ दृशपाघ्राध्माधेड़भ्यः शः ॥
(सुबेधिनी) - हशादेः शः ॥ दृशपाघ्राध्माधेभ्यः शप्रत्ययो भवति । शप्रत्ययमाह - शस्येत्संज्ञा ॥
( तत्त्वदी ० ) - शादेः ॥ आदिपदग्राह्यानाह - दृशूपात्यादि ॥
शिति चतुर्वत् ॥ चतुर्षु तिवादिषु यत्कार्यमुक्तं तच्छिति परे भवति ॥ पश्यः । पिवः । जिघ्रः । धमः । धयः । घ्रः संज्ञायां न । व्याघ्रः ॥