________________
(२१२)
सिद्धान्तचन्द्रिका। [ पूर्वकृदन्तप्रक्रिया ] (सुबोधिनी)-शिति चतुर्वत्॥चतुर्विवेति चतुर्वत् ॥ पश्यतीति । दृशादेरिति पश्यादेशः । अप् कर्तरीत्यप् । अदे इत्यलोपः । पश्यः॥ पा पाने । पा रक्षणे। इत्ययं तु न गृह्यते लुग्विकरणालुग्विकरणयोरलुग्विकरणस्यैव ग्रहणमिति न्यायात् । पिवतीति पिवः ॥ ब्रा गन्धोपादाने । जिघ्रतीति जिघ्रः । ध्मा शब्दाग्निसंयोगयोः । धम.. तीति धमः ॥ धेट पाने । धयतीति धयः ॥ध्रः संज्ञायां न । संज्ञायां वाच्यायामस्माच्छो न। विशेषेण जिघ्रतीति । उपसर्गे आदन्तादिति कः। आतोऽनपीत्यालोपे व्याघ्रः॥
(तत्त्वदी०)--पश्य इति।पश्यतीति विग्रहः । चतुर्वत्करणादप्पश्यादेशौ ॥ एवमन्यत्रापि ॥ अत्र केचिदुपसर्गमनुवर्तयन्ति बहवः । श्रीहर्षोऽपि फलानि धूमस्य धयान्' इत्युदाहृतवान्। व्याघ्र इति ॥ विशेषेण जिघ्रताति व्याघ्रः । उपसर्गे आदन्तादिति कः ।।
(अनुपसर्गेभ्यो लिम्पविन्दधारिपारिवादेजिचेतिसातिसाहिभ्यः शः) लिम्पः । विन्दः । धारयः। पारयः । वेदयः । उदेजयः। चेतयः। सातिः सुखे । सातयः । साहयः॥ __(सुबोधिनी)-अनुपसर्गेभ्यो लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यः शः॥ लिप उपदेहे । विद्ल लाभे । तौदादिकाविमौ ।भाविना मुमा निर्दिष्टौ। तेन लाभार्थस्यैव विदेग्रहणं न तु सत्ताद्यर्थकस्य । लिम्पतीति । विन्दतीति । तुदादेरित्यः। अदेरित्यलोपः। लिम्पः। विन्दः । मुचादेरित मुम् ।। धृ धारणे । धृङ अवस्थाने । ञ्यन्तयोईयोरपि ग्रहणम् । धारयतीति धारयः ॥ पार कर्मसमाप्तौ । चुरादिः । पृ पालनादौ इति ज्यन्तो वा । पारयतीति पारयः ॥ विद चेतनादिषु चुरादिः । ज्ञानाद्यर्थानामन्यतमोज्यन्तो वा । वेदयतीति वेदयः॥ उत्पूर्वः एजृ कम्पने । ज्यन्तः। उदेजयतीति उदेजयः॥ चित संचेतने चुरादिः।चेतयतीति चेतयः॥ सातिः सुखे । सौत्रः । सातयतीति सातयः॥ विप्प्रत्यये तु सात् परमात्मा। सात् विद्यते येषां ते सात्वन्तो भक्ताः ॥ षह मर्षणे चुरादिः । प्रयोजकञ्यन्ता वा ॥ साहयतीति साहयः ॥ अनुपसर्गेभ्य इति किम् । प्रलिपः । नाम्युपधादिति कः ॥ ___(तत्त्वदी०) अनुपसर्गेभ्यः ॥ लिप उपदेहे । विदूल लाभे । समुनिर्देशाल्लाभा
दन्येषामग्रहणम् । घृञ् धारण । धृङ् अवस्थाने । द्वयोरपि ञ्यन्तयोर्ग्रहणम् ॥ पार कर्मसमाप्तौ। पु पालनपूरणयोरिति वा ञ्यन्तः॥ विद चेतनाख्याननिवासेषु । चुरादिऊ न्तः । ज्ञानाद्यर्थानामन्यतमो वा प्रेरणञ्यन्तः । उत्पूर्व एन कम्पने ॥ षह मर्षणे चुरादिः । प्रेरणार्थञ्यन्तो वा ॥ लिम्पविन्दोस्तुदादित्वादः । मुचादित्वान्मुम् । धारयादिष्वबादयो गणाः यादृशाः ।। . (नौ लिम्पेः ) निलिम्पा देवाः॥ (सुबोधिनी)-नौ लिम्पेः॥ नौ पूर्वपदेशः॥ निलिम्पतीति निलिम्पा देवाः॥ (गवादिषु विन्देः संज्ञायाम् ) गोविन्दः । अरविन्दम् ॥