SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ { पूर्वकृदन्तप्रक्रिया ] टीकाद्वयोपेता। (२१३) (सुबोधिनी )-गवादिषु विन्देः संज्ञायाम् ॥ कार्येऽण् इत्यस्यापवादोऽयम् । गां विन्दतीति गोविन्दः॥ चक्रस्य नाभिनेम्योरन्तराले स्थितानि काष्ठान्यरा उच्यन्ते । अराकाराणि दलानि तत्सादृश्यादरास्तान् विन्दते लभत इत्यरविन्दम् ॥ (तत्त्वदी०)-अरविन्दमिति ॥ चक्रनाभिनेम्यन्तरालस्थितकाष्ठान्यरास्तदाकाराणि दलानिविन्दति प्राप्नोतीति विग्रहः ॥ (दाधानोर्वा ) ददः । दधः । (सुबोधिनी)-दाधाञोर्वा। अनुपसर्गाभ्यामाभ्यां वाशः॥ ददातीति। दधातीति । द्वादेरिति द्वित्वम् । शस्य ङित्त्वादादेरित्यलोपः। ददः । दधः । पक्षे ज्वलादेरिति णः । आतो युगिति युक् । दायः । धायः ॥ अनुपसर्गे किम् । प्रदः । प्रधः। उपसर्गे इति कः । दद दाने । दध धारणे । एतयोरपि ददः दध इति ॥ (ज्वलादेर्णः ) ज्वालः । चालः। तापः॥ (श्यादेश्च) अवश्यायः। दायः । धायः॥ __(सुबोधिनी)-ज्वलादेर्णः॥ अनुपसर्गाज्ज्वलादेर्वाणः॥णप्रत्ययमाह-णकारी वृद्धयर्थः । ज्वलतीति ज्वालः । चलतीति चालः। तप संतापे । तपतीति तापः। पर्छ पचादरित्यः । ज्वलः । चलः । तपः । उपसर्गे तु । उज्ज्वलः॥ __ (तत्त्वदी० )-ज्वलादेरिति ॥ पान्थ इत्यादौ ज्वलादिपाठसामर्थ्यादृद्रौ सत्यां नुम् । अणप्योति केचित् । 'प्रियाङ्गपान्थः कुचयोर्निपत्य' इति श्रीहर्षोऽपि ॥ - (कार्येऽण् ) कर्मण्युपपदे धातोरण ॥ कुम्भकारः॥ (सुबोधिनी)-कार्येऽण् ॥ अण्प्रत्ययमाह-णकारो वृद्धयर्थः । कुम्भं करोतीत्यत्राणि कृते कर्तृकार्ययोरिति षष्ठयन्तस्य कुम्भशब्दस्य नाम्नश्च कृतेति कारशब्देन समासः॥ कुम्भस्य कारः कुम्भकारः। कथं तर्हि गङ्गाधरभूधरादय इति चेत् पदसं. स्कारपक्षे धरतीति धरः गङ्गाया धरः गङ्गाधरः इति शेषे कृति वेति कर्मणि या षष्ठी तदन्तेन समासः ॥ (तत्त्वदी०)-कुम्भकार इति ॥ कुम्भं करोतीति नित्यसमासार्थमस्वपदविग्रहः । इहाणि कृते कृर्तृकार्ययोरिति पष्ठयन्तेन कुम्भशब्देन कारशब्दस्य समासः । गङ्गाधर इत्यादौ अचि गङ्गाया धर इति विग्रहो बोध्यः ॥ (हावामाभ्यश्च ) स्वर्गायः। तन्तुवायः। धान्यमायः॥ (सुबोधिनी)-हावामाभ्यश्च॥कर्मण्युपपदे एभ्योऽप्यण् ॥ आतो ड इत्यस्यापवादः । स्वर्ग बयतीति । सन्ध्यक्षराणामित्यावे आतो युक् । स्वर्गद्वायः॥ वेज़
SR No.002415
Book TitleSiddhant Chandrika Uttararddham
Original Sutra AuthorN/A
AuthorKshemraj Shrikrishnadas Shreshthi
PublisherKshemraj Shrikrishnadas Shreshthi
Publication Year1850
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy