________________
(२१४)
सिद्धान्तचन्द्रिका। [पूर्वकृदन्तप्रक्रिया ] तन्तुसन्ताने । तन्तुं वयताति तन्तुवायः ॥ माङ्ग माने । मेड़ प्रणिदाने । अनयारिह ग्रहणं न तु मा माने इत्यस्याकर्मकत्वात् । धान्यं मिमीते इति धान्यमायः ॥
(शीलिकामिभक्ष्याचरिक्षमीक्षिभ्यो णः) मांसशीला। मांसकामा । मांसभक्षा । कल्याणाचारा । बहुक्षमा । सुखप्रतीक्षा॥ (सुबोधिनी) शीलिकामिभक्ष्याचरिक्षमीक्षिभ्यो णः॥णप्रत्ययमाह-णो वृद्धयर्थः ॥ शील समाधौ । मांसं शीलतीति। आवतः स्त्रियामित्याप । मांसशीला ॥ मांसं कामयते इति । कमेजिङिति जिङ । जोरीति जिलोपः। मांसकामा ॥ भक्ष अदने चुरादिः। मांस भक्षयतीति मांसभक्षा ॥ कल्याणमाचरतीति कल्याणाचारा ॥ क्षमूषु सहने।बहून् क्षमत इति बहुक्षमाईक्ष दर्शनादौ।सुख प्रतीक्षते इति सुखप्रतीक्षा ।
(आतो डः) कर्मण्युपपदे आदन्ताड्डः। गोदः। धनदः। पाणिः ॥ (सुबोधिनी)-आतो डः॥ अनुपसर्गादित्येव ॥ डप्रत्ययमाह-अणोऽपवादः । डित्त्वाहिलोपः । गां ददातीत गोदः ॥ धनं ददातीति धनदः ॥ पाणि पश्चात्पदं त्रायते इति पाणित्रः ॥ अनुपसर्गे किम् । गोसंदायः। अण् युकू च ॥
(तत्त्वदी०)-आतो डः॥ यद्यपि कप्रत्ययेनैवातोऽनपीत्यालोपे रूपसिद्धिस्तथाप्युत्तरार्थ डित्त्वम् । तथा च द्विज इत्यादिसिद्धिः फलम् ॥
(नाम्नि च) नाम्युपपदे धातोर्डः॥ द्विजः। द्विपः । गृहस्थः । गिरिशः । पादपः॥
( सुबोधिनी)-नानि च ॥ नाममात्र इत्यर्थः । द्वाभ्यां मुखशुण्डाभ्यां पिवतीति द्विपः । गृहे तिष्ठतीति गृहस्थः ॥ गिरावुपपदे डः छन्दस्येव नान्यत्र भाष्याद्यनुक्तत्वात् । गिरौ शेत इति गिरिशः॥ पादैः पिबतीति पादपः॥ कथं तर्हि 'गिरिशमुपचचार प्रत्यहं सा सुकेशी' इति । गिरिरस्यास्तीति गिरिशः। लोमादित्वाच्छः ॥
(तत्त्वदी०)-नाम्नि चेति॥ नाममात्र इत्यर्थः॥ द्विप इति॥ द्वाभ्यां शुण्डादण्डमुखाभ्य पिबतीति द्विपः ॥ द्विर्जायते इति द्विजः ॥ 'मातुर्यदये जायन्ते द्वितीयं मौजिबन्धनात्।' इत्युक्तेः ।।
(शुचः शूद्रे )शुचं द्रवतीति शूद्रः॥ (सुबोधिनी)-शुचः शूद्रे ॥ शुचः शब्दस्य शूरादेशो द्रे परे चात् ॥ दुधातोर्डप्रत्ययः। द्र गतौ । शुचं द्रवतीति शूद्रः॥
(तत्त्वदी०)-शुचः शूद्रे ॥ शुचः शू इत्ययमादेशः द्रे पर इत्यर्थः । शुचं द्विजसेवारूपं शोकं द्रवति प्राप्नोतीति शूद्रः ॥
(उरसो लोपो मुम्बा डान्ते गमौ) उरगः-उरंगः॥