________________
[पूर्वकृदन्तप्रक्रिया ] टीकाद्वयोपेता।
(२१५) (सुबोधिनी)-उरसो लापो मुम्वाडान्ते गौ॥ उरस्शब्दस्य सस्य लोपः गमेर्डश्च वा मुमागमः ॥ उरसा गच्छीति उरगः-उरंगः॥
(तत्त्वदी०) उरसो लोप इति ॥ सस्येत्यर्थः । उरसा गच्छतीति विग्रहः ॥ (विहायसो विहो मुम्वा डान्ते गमौ )विहगः-विहंगः ॥ . (सुबोधिनी)-विहायसो विहो मुम्वा डान्ते गौ ॥ विहायसशब्दस्य विह आदेशः गमेर्डश्च वा मुम् ॥ विहायसा आकाशेन गच्छतीति विहगः-विहंगः॥
(भुजतुरयोर्मुम्वा )डान्ते गमौ । भुजगः-भुजंगः । तुरगः-तुरंगः॥ ( सुबोधिनी)-भुजतुरयोर्मुम्वा ॥ अनयोरुपपदयोर्गमेर्डः अनयोर्मुम् च वा ॥ भुजेन कौटिल्येन गच्छतीति भुजगः-भुजंगः॥ तुरेण वेगेन गच्छतीति तुरगः-तुरंगः (तत्त्वदी० )-भुजग इति ॥ भुजेन कौटिल्येन गच्छतीति विग्रहः ॥ (संप्रसारणिभ्यो डः ) कापवादः॥ प्रज्यः। आह्वः । प्रहः॥ (सुबोधिनी)-संप्रसारणिभ्यो डः॥ उपसर्गे आदन्तादित्यस्यापवादः । संप्रसारणं येषां धातूनामास्ति ते संप्रसारणिनस्तेभ्यो डः ॥ ज्या वयोहानौ।प्रजिनातीति प्रज्यः॥ हृञ् स्पर्द्धायाम् । आह्वयतीत आह्वः। प्रतः ॥ __ (तत्त्वदी०)-संप्रसारणिभ्य इति ॥ कापवाद इति॥ के तुः संप्रसारणं स्यादिति भावः ॥ प्रज्य इति ॥ प्रजानातीति विग्रहः ॥
( तुन्दशोकयोः परिमृजापनुदोरालस्यसुखाहरणयोः कः) तुन्दपरिमृजोऽलसः। शोकापनुदः सुखस्याहर्ता ॥ (सुबोधिनी ) तुन्दशोकयोः परिमृजापनुदोरालस्यसुखाहरणयो:कः॥ तुन्दशोक्योः कर्मणोरुपपदयोराभ्यां कः आलस्यसुखाहरणयोरर्थयोः । नुदोरिति पञ्चम्यर्थे षष्ठी ॥ पुनः कप्रत्ययमाह-कित्त्वान्न गुणः । मृजूषु शुद्धौ । तुन्दं परि मार्टीति तुन्दपरिमृजोऽलसः। अत्र मृजेवृद्धिरिति वैकल्पिकी वृद्धिर्नेत्येके । स्यादेवेत्यन्ये ॥ णुद प्रेरणे । शोकमपनुदतीति शोकापनुदः सुखस्याहर्ता सुखाभिलाषी । अलसादन्यत्र तुन्दपरिमार्जः । यश्च संसारासारत्वोपदेशेन शोकमपनुदति स शोकापनोदः । अणेव ॥
( तत्त्वदी०)-तुन्दशोकयोरिति ॥ तुन्दशोकयोरुपपदयोः । परिपूर्वो मृनष् शुद्धौ अपपूर्वो णुद प्रेरणे इत्यनयोः षष्ठी । पञ्चम्यर्थे षष्ठी । आलस्यसुखाहरणयोरर्थयोः ॥ तुन्दपरिमृजोऽलस इति॥य आलस्यात्तन्दं परिमार्टि स एवमुच्यते । मृजेर्वा वृद्धिरिति तु व्यवस्थितविभाषया न|अलसादन्यत्र तुन्दपरिमार्ज एव ॥ शोकापनुदः इति ॥ यस्तु संसारानित्यताद्युपदेशेन शोकमेवापनुदति स शोकापनोद एव ॥