SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ ( २१६ ) सिद्धान्तचन्द्रिका । [ पूर्वकृदन्तप्रक्रिया ] (मूलविभुजादेः कः ) मूलानि विभुजतति मूलविभुजो रथः । कुधः । महीधः । गिरः - गिलः ॥ (सुबोधिनी) - मूलविभुजादेः कः ॥ मूलानि विभुजतीति। भुजोऽकौटिल्य। पूलविभुजः ॥ धृञ धारणे । महीं धरतीति महीघ्रः पर्वतः । कुं धरतीति कुमः ॥ निग रणे । गिलतीति ऋत इरितीर् । गिरतेः स्वरे इति वा लः । गिल: ( तत्त्वदी० ) - मूलविभुजादेरिति || मूलविभुज इत्यादे रूपस्य सिद्धये को वक्तव्य इति व्याख्येयम् ॥ (गष्टक् ) सामगः । सामगी स्त्री ॥ ( सुबोधिनी ) - गष्ट ॥ कर्मण्युपपदेऽनुपसर्गाद्वायतेष्टक् ॥ टक्प्रत्ययमाहटाव्रत इति ईर्थः ॥ शब्देन तु गाङ् गतौ गा स्तुतावित्यनयोर्ग्रहणमनभिधानात् । साम गायतीति । आतोऽनपीत्यालोपः । सामगः । स्त्री सामगी ॥ अनुपसर्गे किम । सामसंगायः । अण युक् च ॥ ( तत्त्वदी ० ) - गष्टगिति । गै शब्दे इत्यस्यैव ग्रहणं न तु गाङ् गतौ गा स्तावित्यनयोः अनभिधानात् ॥ सामगीति ष्ट्रत इतीप् ॥ ( पिवतेः सुराशीध्वोः ) सुरापी | शीधुपी ॥ (सुबोधिनी) - पिबतेः सुराशीध्वोः ॥ सुराशीध्वोरुपपदयोः पिबतेष्टक् ॥ सुरां पिवतीति सुरापी ॥ शीधु मद्यं पिवतीति शीधुपी । अन्यत्र ड एव । क्षीरपा ब्राह्मणी ॥ (तत्त्वदी ० ) - सुरापीति ॥ सुरां पिवतीति विग्रहः । अन्यत्र क्षीरपा सुरां पातीति सुरापा (अटौ) नाम्नि कार्ये च अकारटकारौ प्रत्ययौ | अस्थिरः वा कवचहरः कुमारः। धनुर्धरो युवा । कुरुचरः । पुरःसरः । अग्रेसरः 1 पार्श्वशयः । पृष्ठशयः । शक्तिग्रहः । पूजाह । स्तम्बेरमो हस्ती । कर्णेजपः सूचकः | यशस्करी विद्या । श्राद्धकरः । वचनकरः । कर्मकरः । दिवाकरः । निशाकरः । ( सुबोधिनी ) - अटौ ॥ नाम्नि कार्ये च अकारटकारौ प्रत्ययौ भवतः ॥ अप्रत्ययमाह-अस्थि हरतीति अस्थिहरः । कवच हरतीति कवचहरः ॥ धनुर्धरतीति धनुर्धरः ॥ पार्श्वभ्यां शेते इति पार्श्वशयः ॥ पृष्ठेन शेते इति पृष्टशयः ॥ शक्ति गृह्णाafa शक्तिग्रहः ॥ अर्ह पूजायाम् । पूजामर्हतीति पूजार्हा ब्राह्मणी ॥ स्तम्बे रमते इति सप्तम्या अलुक् । स्तम्बेरमः ॥ कर्णे जपतीति सप्तम्या अलुक् । कर्णेजपः सूचकः पिशुनः । टप्रत्ययमाह - ट ईबर्थः । कुरुषु देशेषु चरतीति कुरुचरः । स्त्री कुरुचरी ॥ पुरःसरतीति पुरःसरः । अग्रे सरतीति । एदन्तत्त्वं निपात्यते अग्रेसरः || हेतुताच्छील्यानुलोम्येषु कृञष्टः । हेतौ यशः करोतीति यशस्करी । सहादित्वात्सः । ताच्छील्ये श्राद्धं
SR No.002415
Book TitleSiddhant Chandrika Uttararddham
Original Sutra AuthorN/A
AuthorKshemraj Shrikrishnadas Shreshthi
PublisherKshemraj Shrikrishnadas Shreshthi
Publication Year1850
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy