________________
[ पूर्वकृदन्तप्रक्रिया ]
टीकाइयोपेता ।
( २१७ )
करोतीति श्राद्धकरः । आनुलोम्ये वचनं करोतीति वचनकरः । एषु किम् । कुम्भ कारः अव || कर्मशब्दपूर्वात् कृञो वेतने टः । कर्म करोतीति कर्मकरो भृतकः । अन्यः कर्मकारः। अणेव । दिवाऽव्ययं दिवसवाची । दिवा करोतीति दिवाकरः ॥
( तत्त्वदी० ) - अटौ ॥ अश्व टश्व अटौ । कर्मत्वविशेषविवक्षायामपि यथा स्यादित्येवमर्थं कार्यस्यानुवर्तनम्। अन्यथा कार्ये अव स्यात् ॥ अस्थिर इति ॥ अस्थि हि विग्रहः ॥ कुरुचरीति ॥ ढिवादी ॥
( इखखि ) नाम्नि कार्ये च ॥ शकृत्करिः । स्तम्बकरिः । फलानि गृह्णातीति फलेग्रहिः । फलस्यैदन्तत्वं निपातनात् । इतिहरिः । नाथहरिः । देवापिः । वातापिः ॥
( सुबोधिनी ) - इखखि ॥ स्तम्बशकृत्पूर्वात्कृञ इब्रीहिवत्सयोरर्थयोः ॥ इप्रत्ययमाह-स्तम्बं करोतीति स्तम्बकरिव्रीहिः । शकृत्पुरीषं करोतीति शकृत्करिर्वत्सः ॥ अनयोः किम् । स्तम्बकारः, शकृत्कारः, अणेव ॥ फलानि गृह्णातीति । दन्तत्वं निपात्यते । फलेग्रहिः ॥ दृतिनाथपूर्वाद्धरतेरिः पशौ कर्तरि । हतिश्वर्ममयी खल्ला इति ख्याता । तां हरतीति दृतिहरिः पशुः ॥ नाथं नासारज्जुं हरतीति नाथहरिः ॥ पशौ किम् । दृतिहारः । नाथहारः । अणेव || आप्ल व्याप्तौ । देवान् आप्नोतीति देवापिः ॥ वातान् आप्नोतीति वातापिः ॥
( तत्त्वदी ० ) - खखि || इश्व खश्च विश्व एतेषां समाहारः इखखि ॥
( खिति पदस्य ) खिति परेऽनव्ययपूर्वपदस्य मुम् ॥ सर्वकषः । कूलंकषः । करीषेकषः ॥
(सुबोधिनी) - खिति पदस्य || खिदन्ते परेऽनव्ययस्य पूर्वपदस्य मुम् ॥ खप्रत्ययमाह-खित्वान्मुम् । सर्वकूलाभ्र करीषपूर्वात्कषः खः ॥ कष हिंसायाम् । सर्वं कष तीति सर्वकषः खलः । कूलं कपतीति कूलंकषा नंदी । अभ्रं कषतीति अकषों वायुः । 'करी गोमयं शुष्कम्' इत्यमरः ॥ करीषं कषतीति करीषकपा वात्या ॥ ( तवदी ० ) - खिति ॥ ख इद्यस्य खित् तस्मिन् ॥
( वाचंयमादयो निपात्याः ) वाचंयमः । पुरंदरः । द्विषतपः । परंतपः । कुक्षिंभरिः । उदरंभरिः । आत्मंभरिः ॥
(सुबोधिनी) - वाचंयमादयो निपात्याः ॥ वाक्पूर्वाद्यमेः खो व्रतेऽर्थे ॥ मुः उपरमे । वाचं । यच्छतीति वाक्पुरोरदन्तत्वं निपात्यते । वाचंयमो मौनव्रती ॥ व्रते किम्। अशक्त्यादिना वाचं यच्छतीति वाग्यामः । अणेव ॥ दृ विदारणे । पुरं दृणातीति पुरंदरः ॥
भये दृ आदरे एतयोर्ग्रहणं न संप्रदायात् । द्विषत्परपूर्वात्तापेः खः । द्विवन्तं परं वा तापयतीति।जेरिति ञिलोपः । उपधाह्रस्वत्वं निपात्यते । मुमि कृते संयोगान्तस्येति तलोपः