________________
( २१८ )
सिद्धान्तचन्द्रिका |
[ पूर्वकृदन्तप्रक्रिया ]
द्विषतपः । परंतपः ॥ विप्रत्ययमाह - आत्मोदरकुक्षिषु भृञः खिः । आत्मानं विभर्तीति मुमि कृते संयोगान्तस्येति नलोपः । आत्मंभरिः । कुक्षिमुदरं वा बिभर्तीति कुक्षिंभरिः ॥ उदरंभरिः ॥
(आशिते भुवो भावकारणयोः खः) आशितेन भूयते आशितंभवः । आशितो भवत्यनेनेति वा ॥
(सुबोधिनी) - आशिते भुवो भावकरणयोः खः ॥ पुनः खप्रत्ययमाह ॥ आशितशब्दे उपपदे भवतेः खः भावे करणे च ॥ यावतौदनेनातिथ्यादिर्भोजितो भवति स ओदन आशितंभवः उच्यते ॥
( तत्त्वदी० ) आशितंभव इति ॥ यावता ओदनेनातिथ्य दिर्भोजितो भवत्याशितंभवः स एवमुते ॥
एजां खश् ॥ जननेजयतीति जनमेजयः । आत्मानं पण्डित मन्यते इति पण्डितंमन्यः । मुखं धयतीति मुञ्जंधयः । कूलंघयः ॥
(सुबोधिनी) - एां खश् ॥ एजादिभ्यः खश ॥ खश्प्रत्ययमाह - खित्त्वान्मुम् । शित्त्वाच्चतुर्वत्कार्यम् । एज कम्पने । जनमेजयतीति । अप् कर्तरीत्यप् । अद इत्यलोपः । जनमेजयः ॥ पण्डितमात्मानं मन्यते इति । दिवादेरिति । यः पण्डितंमन्यः । णिनि प्रत्यये पण्डितमानी । मुअं धयतीति । अयादेशेन धेटो पयू । मुअंधयः ।
( तत्त्वदी ० ) - जामिति ॥ बहुवचनमाद्यर्थम् ॥
( खशन्ते पूर्वपदस्यानव्ययस्य ह्रस्वः ) मुष्टी धयतीति मुष्टिं - धयः । नाडिंधमः । नासिकंधयः । अनव्ययस्य किम् । दिवामन्या रात्रिः । दोषामन्यमहः । कूलमुद्रुजः । कूलमुद्वहः | अरुंतुदः ॥
( सुबोधिनी ) - खशन्ते पूर्वपदस्यानव्ययस्य ह्रस्वः । मुष्टीं धयतीति मुष्टिधयः । मुष्टीं धमतीति मुष्टिधमः । नाडीं धमतीति नाडिंधमः । नासिकां धयतीति नासिकंधयः । नाडीमुष्टीनासिकानां हस्वः । दृशादेरिति ध्माधानोर्धम् । धटोऽयादेशः ॥ अनव्ययस्य किम् । दिवामन्या रात्रिः । दोषामन्यमहः । रुजो भङ्गे । कूलमुडुजतीति कूलमुद्रुजः । तदादेरित्यः । कूलमुद्वहतीति कूलमुद्वहः । अरुस्तदतीति अरुंतुदः । मुमि कृते संयोगान्तस्येति सलोपः । ' व्रणोऽस्त्रियामीर्ममरुः' इति 'अरुंतुदस्तु मर्म - पकू' इति चामरः ॥
( तत्त्वदी०) - अरुंतुद इति ॥ 'व्रणोऽस्त्रियामीर्ममरुः' । अरुः तुद नीति विग्रहः । उकारात् मुमि कृते संयोगान्तस्येति सलोपः ॥
( दारावाहनोऽणन्तस्य च टः संज्ञायाम् ) हनो घत् । उवम् । दारु आहन्तीति दार्वाघाटः ॥