________________
[ पूर्वकृदन्तप्रक्रिया ] टीकाद्वयोपेता।
(२१९) (सुबोधिनी)-दारावाहनोऽणन्तस्य च टः संज्ञायाम् ॥ दारुशब्दे उपपदे आपूर्वाद्धन्तेरण अन्तस्य तस्य टश्च स्यात् ॥ पुनरणप्रत्ययमाह-णित्त्वाइद्धिदारु आहन्तीति। हनो घदिति घत् । उवमिति वः। दावाघाटः। सूत्रे शब्दापेक्षया दाराविति पुंस्त्वम्। 'काष्ठं दाविन्धनं त्वेधः' इत्यमरः॥टकारविधानार्थमिदं सूत्रम्। अण् तु कार्येऽणित्यनेनैव सिद्धः । अन्तग्रहणं स्पष्टार्थम् ॥
(चारौ वा ) चावाघाट:-चार्वाधातः ॥ (सुवाधिनी)-चारौ वा॥चारुशब्दे उपपदे आपूर्वाद्धन्तरण, वा टः॥ चारु आहन्तीति चार्वाघाट:-चार्वाघातः॥
(कर्मणि संपूर्वाच्च ) वर्णान् संहन्तीति वर्णसंघाटः-वर्णसंघातः। पदं संहन्तीति पदसंघाट:-पदसंघातः॥ ___ (सुबोधिनी)-कर्मणि संपूर्वाञ्च । कर्मण्युपपदे संपूर्वाद्धन्तरण, वा टः॥ वर्णान् संहन्तीति वर्णसंघाटः-वर्णसंघातः । एवं पदानि संहन्तीति पदसंघाट:-पदसंघातः॥ - (जायापत्योष्टक् लक्षणवति कर्तरि ) गमां स्वरे । हनोप्ने । जायां हन्तीति जायाघ्नो ना। पतिघ्नी स्त्री॥ _ (सुबोधिनी)-जायापत्योष्टक लक्षणवति कर्तरि ॥ हन्तष्टक । टक्प्रत्ययमाह-रीत्त्वात् 'ष्टिवतः' इतीमरणसूचकं पाणिरेखादिकं लक्षणं यस्यास्ति स लक्षणवान् तस्मिन्कर्तरि सति । जायां हन्तीति । 'गमां स्वरे' इत्युपधालोपः। हनो ने इति घः। जायानो ना । पतिघ्नी स्त्री ॥
(तत्त्वदी० )--जायापत्योरिति॥ कथं प्रलम्बन्नः कृतघ्नः शत्रुघ्नः इत्यादि। मूलविभुजादित्वात् को बोध्यः ॥
(अमनुष्यकर्तृके च)पतिघ्नी पाणिरेखा। जायाघ्नस्तिलकालका (सुबोधिनी)-अमनुष्यकर्तृके च ॥ कर्मण्युपपदे हन्तेष्टक मनुष्यभिन्ने कर्तरि सात ॥ जायानस्तिलकालकः । पित्तनं घृतम्॥अमनुष्येति किम् । आखुघातः शूद्रः। अणेव । कथं तर्हि 'बलभद्रः प्रलम्बघ्नः' इति, शत्रुघ्नः कृतघ्नः इति च । मूलविभुजादित्वात्कः॥
(पाणिघताडघौ शिल्पिनि निपात्यौ) पाणिघः । ताडघः । शिल्पिनि किम् । पाणिघातः। ताडघातः॥ (सुबोधिनी)-पाडिघताडघौ शिल्पिनि निपात्यौ ॥ पाणिताडयोरुपपद योर्हन्तष्टकुटिलोपघत्वे च निपात्यते । पाणिं हन्तीति पाणिघः। ताडं हन्तीति ताडघः। क्रियासु कौशल्यं शिल्पं तदस्यास्तीति शिल्पी॥ शिल्पिनि किम् । पाणिघातः। ताड-- घातः। कार्येणित्यण ॥