________________
(२२०)
सिद्धान्तचन्द्रिका। [पूर्वकृदन्तप्रक्रिया ] (तत्त्वदी०)-शिल्पिनीति ॥ क्रियासु कौशल्यं शिल्पं तदस्यास्तीति शिल्पी तस्मिन्॥ (राजघश्च) राजानं हन्तीति राजघः॥ (सुबोधिनी)-राजघश्च॥राज्ञि हन्तेष्ट टिलोपधत्वे च॥राजानं हन्तीति राजघः॥ (भजां विण वेः) लोपः। अर्द्धाक्। सुखभाक् ।तुरापाट्।भारवाट्। (सुबोधिनी)-भजां विण्॥नाम्न्युपपदे भजादेविण ॥ विणप्रत्ययमाह--णित्त्वाइद्धिः । वेरिति विलोपः।अर्द्ध भजतीति अर्द्धभाक् । चोः कुरिति कः॥ सुखं भजतीति सुखभाक् ॥ षह मर्षणे। तुरां सहते इति सहेः षः, साढीति षत्वम् । तुरापाट । केचित्तुरशब्दमदन्तमाहुः । तन्मतेऽन्येषामपीति पूर्वपदस्य दीर्घः ॥ __ (तत्त्वदी०).-भजामिति।।बहुवचनमाद्यर्थम्।।तुराषाडिति॥तुरं वेग सहते इति विग्रहः । अन्येषामपीति अन्त्यस्वरस्य दीर्घः । सहादित्वाहा । तुरं न सहत इति कश्चित् । तद्बहूनामसंमतम् ।।
(अभूततद्भावे कृभ्वस्तियोगे नानश्विः) च्ची दीर्घः।ई चास्य॥ च्वौ परेवर्णस्य ई ॥ इदुतोर्दीर्घः । मिथुनीकरणम् । शुक्लीभावः । शुचीभवति । सहायीस्यात् । हेतूकृतम् ॥ (सुबोधिनी)--अभूततद्भावे कृभ्वस्तियोगे नाम्नश्च्विः ॥नाम्नश्च्विप्रत्ययः। न प्राग़ भूतमभूतम्,अभूतस्य तेन भवनमभूततद्भावस्तस्मिन्नर्थे कृभू अम् एषांधातूनामन्वये सति । च्चिप्रत्ययमाह-चौ दीर्घ ई चास्य ॥ चौ परे अवर्णस्य ईकारः । इदुतोश्व दीर्घः॥ च्याविति विशेषणार्थे । वेरिति विलोपः। क्त्वाद्यन्तं चेति च्यन्तस्याव्ययत्वाद्विभक्तेलृक् । अमिथुनं मिथुनं क्रियत इति मिथुनीकरणम्।अशुक्लस्य शुक्लेन भवनमिति शुक्लीभावः । असहायः सहायः स्यादिति सहायीस्यात् । अहेतुना हेतुना कृतमिति हेतूकृतम् ॥ कृभ्वस्तियोगे इति किम् । अशुक्लः शुक्लो जायते ॥
(च्चौ सलोपः) सुमनीभावः। अरूकरोति । चषकरोति। सुचेतीभावः । रहीभवति। विरजीकरोति ॥
(सुबोधिनी) च्वौ स लोपः॥अरुर्मनश्चक्षुश्चेतोरहोरजसा सस्य लोपः च्चिप्रत्यय।। असुमनसा सुमनसा भवनमिति सुमनीभावः। अनरुररुः करोतीति अरूकरोति । अचक्षुश्चक्षुः करोतीति चर्करोति। असुचेताः सुचेता भवतीति सुचेतीभवति। अरहो रहो भवतीति रहीभवति । अविरजो विरजः करोतीति विरजीकरोति ॥
(कचिडा) सुखं करोतीति सुखाकरोति। दुःखाकरोति।शम्बाकरोति । द्विगुणाकरोति ॥ बीजाकरोति ॥ . (सुबोधिनी) क्वचिड्डा ॥ नाम्नो डाप्रत्ययः कृजो योगे ॥ दुःखात्प्रातिलोम्ये डा॥ डाप्रत्ययमाह-डित्वाहिलोपःोक्त्वाद्यन्तं चेति डाप्रत्ययान्तस्याव्ययत्वाद्विभक्तेः