________________
[ पूर्वकृदन्तप्रक्रिया ] टीकाइयोपेता।
(२२१) लुक॥दुःखाकरोति । स्वामिनं पीडयतीत्यर्थः ॥ सुखप्रियाभ्यामानुलोम्ये डा। सुखा. करोति प्रियाकरोति वा गुरुम् ।अनुकूलाचरणेनानन्दयतीत्यर्थः॥शम्बाद्विगुणबीजेभ्यो डा कृषिवाच्ये । शम्बाकरोति। शम्बशब्दः प्रतिलोमेऽर्थेऽस्ति । अनुलोम कृष्टं क्षेत्र पुनः प्रतिलोमं कर्षतीत्यर्थः । क्षेत्रं द्विगुणाकरोति । क्षेत्रकर्मकं द्विगुणं कर्षणं करोतीत्यर्थः। बीजाकरोति। काशिकायां बीजशब्दो बीजवापनसहितविलेखने वर्तते । बीजवापनसहितं विलेखनं करोतीत्यर्थ इत्युक्तम् ॥ . (तत्त्वदी०)-दुःखाकरोतीति ॥ पीडयतीत्यथः ॥ सुखाकरोति ॥ अनुकूलाचरणेनानन्दयतीत्यर्थः ॥ शम्बाकरोति॥ अनुलोमं कृष्टं क्षेत्रं पुनः प्रतिलोमं कर्षतीत्यर्थः।। द्विगुणाकरोति ॥ क्षेत्रकर्मकं द्विगुणं कर्षणं करोतीत्यर्थः ॥ बीजाकरोति ॥ · बीजेन सह विलेखनं करोतीत्यर्थः ॥
(अव्ययस्य च्वावीत्व न) दोषाभूतमहः। दिवाभूता रात्रिः । हसात्तद्धितयस्य लोपो ये च्वौ च । अगायो गाग्र्यो भवति गार्गीभवति ॥
(सुबोधिनी)-अव्ययस्य च्वावीत्वं न॥पुनश्चिप्रत्ययमाह-अदोषा दोषाभूतमिति दोषाभूतमहो दिनम्। अदिवा दिवाभूतेति दिवाभूता रात्रिः। ‘ण्यायनणेयणणीयाः' इतिण्यः। गार्ग्यः। अगाग्र्यो गाग्र्यो भवति । हसात्तद्धितयस्येति । यलोपे च्वावितीत्वे च गार्गीभवति ॥
(रीङ्तः ) मात्रीकरोति ॥ (सुबोधिनी )-रीङ् ऋतः॥ ऋकारस्य रीङ स्यात् च्चो ॥ अमातरं मातर करोतीति मात्रीकरोति ॥
(विविषये साद्वा) (सुबोधिनी)-च्विविषये साद्वा॥नाम्नोऽभूततद्भावे एव सात्प्रत्ययो वा स्यात्साकल्येऽर्थे । सात्प्रत्ययमाह-सात्प्रत्ययस्याव्ययत्वाद्विभक्तेलक
(सात्पदायोः )सस्य षत्वं न ॥ अग्निसाद्भवति । अग्नीभवति॥ (सुबोधिनी)-सात्पदाद्योः॥सात्प्रत्ययस्य पदादौ वर्तमानस्य च सस्य षत्वं न ॥ दधि सिञ्चात । किलादिति षत्वे प्राप्त निषेधः । अनग्निरग्निर्भवतीति अग्निसाद्भवति । कृत्स्नं सर्वावयवीपेतं शस्त्रमग्नीभवतीत्यर्थः। सादभावपक्ष विरेव। साकल्ये किम् । एकदेशेन शुक्लीभवति पटः ॥
(संपदा योगे च) जलसात्संपद्यते॥ (सुबोधिनी )-संपदा योगे च ॥ नाम्नः संपद्धातुयोगे सात्प्रत्ययो वा भवति । अजलं जलं संपद्यते इति जलसात्संपद्यते लवणम् । पक्षे संपदा योगे वाक्यमेव ॥