________________
(२२२)
सिद्धान्तचन्द्रिका। [ पूर्वकृदन्तप्रक्रिया ] (अधीने च ) राजसात्संपद्यते ॥ (सुबोधिनी )-अधीने च ॥ नाम्नस्तदधीनेऽर्थे सात् स्यात् कृभ्वस्तिसंपद्योगे।। राजाधीनं संपद्यते इति । नाम्नो नो लोपशिति नलोपः ।राजसात्सपंद्यते । राजाधीनं करोतीति राजसात्करोति ॥
( देये त्राच) विप्राधीनं देयं करोति विप्रत्राकरोति । विप्रत्रासंपद्यते। विप्रसात्करोति ॥ . (सुबोधिनी)-देये त्रा च॥नाम्नस्तदधीने देयेऽर्थे त्राप्रत्ययः स्यात् चात्सादपि कृभ्वस्तिसंपद्योगे ॥ त्राप्रत्ययमाह-अव्ययत्वाद्विभक्त क् । विप्राधीनं देयं करोतीति विप्रवाकरोति । विप्राधीनं देयं संपद्यते इति विप्रत्रासंपद्यते ॥ देये किम् । गजसादवति राष्ट्रम् ॥
( देवमनुष्यपुरुषपुरुमत्येभ्यो द्वितीयासप्तम्यन्तेभ्यो वा त्रा) देवत्रावन्दे । देवं वन्दे ॥
(सुबोधिनी)-देवमनुष्यपुरुषपुरुमत्येभ्यो द्वितीयासप्तम्यन्तेभ्योवात्रा।। द्वितीयान्तेभ्यः सप्तम्यन्तेभ्यश्चैभ्यस्त्रावास्यात्॥देवान् इति देवत्रा वन्दोदेवेषु इतिदेवत्रारमे । मनुष्यान् इति मनुष्यत्रा गच्छति।मनुष्येषु इति मनुष्यत्रा वसति । पुरुषान् इति पुरुषत्रा गच्छति । पुरुषेषु इति पुरुषत्रा वसति । पुरून् इति। पुरुशब्दोऽत्र बहुशब्दा पर्यायः । “पुरुः परागे प्रचुरे स्वलोकनृपभदयोः॥” इति हैमः । पुरुत्रा गच्छति । पुरुषु इति पुरुत्रा वसति । मत्योन् इति मत्यंत्रा गच्छति । मत्र्येषु इति मर्त्यत्रा वसति ।।.
(ख्युट करणे) आढयसुभगस्थूलपलितनग्नान्धप्रियेषु व्यर्थषूपफ. देषु कृञः करणेऽथै ख्युट्प्रत्ययः ॥ अनाढयमाढयं करोत्यनेनाढयंकरणम् । सुभगंकरणम् । स्थूलंकरणं दधि । पलितंकरणम् । न करणं द्यूतम् । अन्धंकरणम् । प्रियंकरणम् ॥
(सुबोधिनी)-ख्युट करणे ॥ ख्युट्प्रत्ययमाह-खः खिति पदस्यति मुमर्थः । ट ईवर्थः । युवोरित्यनः । आढयकरणम् । एवं सुभगंकरणम् । स्थूलंकरणम् । पलितं करणम् । नम्रकरणम् । अन्धंकरणम् । प्रियंकरणम् ॥ __ (तत्त्वदी०)-व्यर्थेष्विति ॥ अभूततद्भावविषयेष्वित्यर्थः॥ आढयंकरणमिति । खित्त्वान्मुम् ॥
(भुवः खिष्णुखुको कर्तरि ) अनाढ्य आढयो भवति आढ्यम्भविष्णुः। आढयम्भावुकः ॥
(सुबोधिनी )-भुवः खिष्णुखुको कर्तरि॥आढयादिषु च्व्यर्थेषूपपदेषु भव. तेरेतौ स्तः ॥ खिष्णुप्रत्ययमाह-खित्त्वान्मुम् । आढयभविष्णुः। एवं सुभगंभविष्णुः।