________________
[ पूर्वकृदन्तप्रक्रिया ] टीकाद्वयोपेता।
(२२३) स्थूलभविष्णुः । पलितंभविष्याः न भविष्णुः। अन्धंभविष्णुः। प्रियंभविष्णुः॥खुकञ्प्रत्ययमाह-खित्त्वान्मुम् । जि वाढद्धिः । अनाढय आढयो भवतीति आढयंभावुकः । एवं सुभगंभावुकः । स्थूलंभा एकः । पलितंभावुकः । अन्धंभावुकः । प्रियंभावुकः ।
(आतो मनिकनिब्वनिपः ) नाम्न्युपपदे आदन्ताद्धातोरेते प्रत्ययाः स्युः॥सुदामा।अश्वे तिष्ठतीति अश्वत्थामा। निपातात्सस्य तः।।
(सुबोधिनी)-आतो मनिपक्कानिध्वनिपः ॥ प्रत्ययानाह-पित्त्वात्तुक् । कित्त्वान्न गुणः । इकार उच्चारणार्थः। सुष्टु ददातीति । नोपधाया इति दीर्घा नाम्नो नो लोपशिति नलोपः । सुदामा ॥
(स्थामि ) तादौ किति दोसोमास्थामिर्भवति ॥ (सुबोधिनी)-स्थामि। दोऽवखण्डने। षोऽन्तकर्मणि ॥ मा माने । माङ् मान मेङ प्रणिदाने । इति त्रयाणां ग्रहणम् ॥ ष्ठा गतिनिवृत्तौ।एषामित्त्वं स्यात्तादौ किति । ईत्वदत्वयोरपवादः ॥ (तत्त्वदी० )-स्थामि । स्थाम् इ इति च्छेदः इत्यभिप्रेत्याह-दोसो इत्यादि । (शाछोर्वा) (सुबोधिनी)-शाछो॥शो तनूकरणे।छो छेदन।अनयोरिवं वा तादौ किति ।। ( तत्त्वदी०)-शाछोर्वा ॥ स्थामीत्यत्र इश्च ईश्चाऽनयोः समाहार इरित्याश्रयणेन शाछोर्वेतीदं लब्धम् ॥
(अपिदाधागैहापिबतीनामीः किति हसे किपि वा न तु क्यपि ) सुपीवा । घृतपीवा । भूरिदीवा । अनादन्तादपि । मुशर्मा । मुकर्मा । द्वस्वस्य पिति कृति तुक । प्रातरित्वा । वनिपि ॥
(सुबोधिनी)-अपिदाधागेहापिबतीनामी॥दो अवखण्डनांदङ् पालने। दाणू दाने । डुदाञ् दाने । एषां चतुर्णा ग्रहणम् । धेट पाने, डुधाञ् धारणपोषणयोरित्युभयोर्ग्रहणम् । गै शब्द । ओहाक त्यागे । पा पाने । एषामीत्वं स्यात्किति हस । विपि तु ईत्वं वा । क्यपि ईत्वं न ॥ सुष्टु पिबतीति । कित्त्वान्न गुणः । सुपीवा । घृतं पिवतीति घृत पीवा । अनादन्तादपि एते प्रत्ययाः स्युः। शु हिंसायाम् । सुष्टु शृणातीति । हबक्त्यो रेतीण न । सुशर्मा । ह्रस्वस्य पिति कृति तुक । हस्वस्य तुगागमः स्यात्पिति कृति । इण गतौ । प्रातरेतीति प्रातरित्वा । वनिपि ॥
(ञमस्यात्वम्)विशेषेण जायते विजावा।ओण। ओणतीत्यवावा। पारदृश्वा । राजयुध्वा । निरुपपदेभ्योऽपि सुत्वा । धीवा । पीवा ॥