________________
(२२४)
सिद्धान्तचन्द्रिका। [पूवकृदन्तप्रक्रिया ) (सुबोधिनी)-अमस्यात्वम् ॥ जमान्तस्य धातोरात्वं स्यादनिपि ॥ षष्ठीनिर्दिष्टस्येत्यन्तस्यादेशः। जनी प्रादुर्भावे । विजायते इति विजावा ॥ ओपा अपनयन।
ओणतीति अनुनासिकस्यात्वे अवादेशे च अवावा । कर्मण्युपपदे दृशः कनिप् । भूते इति केचित् । पारं दृष्टवान् इति पारदृश्वा। वर्तमानेऽपि स्यात् । विश्वदृश्वनयना वयम्' इत्यत्र विश्वं पश्यन्तीति विश्वदृश्वानि नयनानि येषां ते विश्वदृश्वनयना इति वर्तमानेन विग्रहेऽपि न क्षतिः। युध संग्रहारे । राजानं युध्यते इति राजयुध्वा । षुञ् आभिषवं । सुनीतीति । ह्रस्वस्येति तुक । सुत्वा । दधातीति । अपिदाधेतीत्वम् । धीवा। पिबतीति पीवा ।।
(तत्त्वदी० )-अवावेति ॥ ओणो णस्यात्वे ओतोऽवादेशे रूपम् ॥ पारश्वेति॥ पारं दृष्टवान् ॥राजयुध्वेति ॥ अन्तर्भावितण्यर्थोऽत्र युधिः । राजानं योधितवान् ॥
(किप) धातोः विप्स्यात् ॥ कर्मकृत् । मो नो धातोः। प्रशान् । प्रदान् । अग्निचित् । सोमसुत । सोमपाः । सर्वदृक् । दिश अतिसर्जने । दिक्॥
(सुबोधिनी)-विप् ॥ सर्वधातुभ्यः क्वि' स्यात् । किप्प्रत्ययमाह-कित्त्वान्न गुणः । पित्त्वात्तुक् । वेरिति विलोपः। कर्म करोतीति कर्मकृत्। प्रशाम्यतीति । जमा न्तस्येति दीर्घः। मो नो धातोरिति नत्वम्। प्रशान् । सोमं सुनोतीति सोमसुत् । अग्निं चिनांतीत आग्निचित् । सामं पिबतीति । आपिदाधेति विपि वेत्वम् । सोमपाः । सर्व पश्यतीति सर्वदृक । दिशामिति कः । दिश अतिसर्जने । दिशतीति दिक् ॥
(विपि वचिप्रच्छयायतस्तुकटग्रुजुश्रीणां दीर्घोऽसंप्रसारणं च) वाक् । किङति झसे क्वौ अमे च छस्य शो वस्य । तत्त्वप्राट, तत्त्वत्राशी ॥ आयतस्तूः। कटप्रूः । जु गती। जूः। श्रीः॥
(सुबोधिनी)-क्विपि वचिनच्छयायतस्तुकटग्रुजुश्रीणां दीर्घोऽसंसारणं च ॥ एषां दीर्घः संप्रसारणाभावश्च स्याक्विपि ॥ वच परिभाषणे । प्रच्छ सीप्सायाम् । आयतपूर्वः ष्टुञ् स्तुतौ । कटपूर्वः पृङ् गतौ । जु गतौ । श्रिञ् सेवायाम् । वक्तीति । चीः कुरिति कः। वाक । तत्त्वं पृच्छतीति। क्ङिति झसे को जमे चेति शस्य शः। छशषेति षः । षो ड इति डः। तत्त्वप्राड् । आयतं स्तोतीति आयतस्तुः । कटं प्रवते इति कटप्रः । जवतीति जूः । हरिं श्रयतीति हरिश्रीः । वचिप्रच्छयोः संप्रसारणाभावः।
( तत्त्वदी० )-बागिति ॥ वक्तीति विग्रहः ॥ तत्त्वप्राडिति ॥ तत्त्वं पृच्छति ।। एवमन्यदपि कर्तरि ॥
( ध्यायतेः विपि संप्रसारणम् ) सुधीः ॥