SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ [ पर्वकृदन्तप्रक्रिया ] टीकाद्वयोपेता । ( २२५ ) (सुबोधिनी) - ध्यायतेः क्विपि संप्रसारणम् ॥ ध्यै चिन्तायाम् । सुष्ठु ध्यायतीति सुधीः ॥ ( गमादीनां ञमस्य लोपः किपि क्यपि वा ) अङ्गगत् । परी तत् । संयत् । सुनत् ॥ (सुबोधिनी ) - गमादीनां ञमस्य लोपः क्विपि क्यपि वा ॥ गम् तन् यम् णम् इत्यादीनामनुनासिकस्य लोपः स्यात्किपि, क्यपि तु वा ॥ अङ्गं गच्छतीति । ह्रस्वस्य पितीति तुक् । अङ्गगत् ॥ परि तनोतीति परीतत् । नहिवृतिवृषिव्यधीति पूर्वस्य दीर्घः ॥ संयच्छतीति संयत् । सुनमतीति सुनत् ॥ ( ऊङ् च ) अग्रेगूः । अग्रेभ्रूः ॥ (सुबोधिनी ) - ऊङ् च ॥ गम्यादीनामूङादेशो नमस्य लोपश्च स्यात्किपि । ङित्त्वादन्त्यस्यादेशः । अग्रे च्छतीति अग्रेगूः । अग्रे भ्रमतीत अग्रेभ्रूः । सप्तम्या अलुक् ॥ (तत्त्वदी० - अग्रेगूः ॥ अत्र गच्छति ॥ (द्युतिगमिजुहोतीनां किपि द्वित्वम् ) दिद्युत् । जगत् । (सुबोधिनी ) - @तिगमिजुहोतीनां विपि द्वित्वम् ॥ द्योतते इति । श्रुतेः पूर्वस्येति संप्रसारणम् । दिद्युत् । गच्छतीति गम्यादीनामिति मलोपः । हस्वस्येति तु । जगत् ॥ ( जुहोतेर्दीर्घः ) जहः ॥ (सुबोधिनी ) - जुहोते दीर्घः ॥ अस्य दीर्घः स्यात्किपि ॥ जुहोतीति जुहूः । करणस्य कर्तृत्वविवक्षायां किए ॥ (पदान्तस्यानितर्नस्य णत्वमुपसर्गस्था निमित्तात्) अन प्राणने । हे प्राण ॥ मित्राणि शास्तीति मित्रशीः ॥ (सुबोधिनी ) - पदान्तस्यानितेर्नस्य णत्वमुपसर्गस्थान्निमित्तात् ॥ उपसर्गस्यान्निमित्तात्परस्य पदान्तस्यानितेर्नस्य णत्वं स्यात् ॥ अन प्राणने । प्रकर्षेण अनितीति । सम्बोधने हे प्राण ॥ नाम्नो नो लोपशिति सूत्रे अधावित्युक्तत्वान्नलोपो न ॥ आसु अनुशिष्टौ । क्किपो लोपे प्रत्ययलोपे प्रत्ययलक्षणमिति न्यायेन हसादिकित्प्रत्ययपरत्वात् शासोररितीकारः । घसादेरिति षः । दोषामिति रः । ' य्वोविं हसे' इति दीर्घे मित्रशीः ॥ (तत्त्वदी०) हे प्राणिति ॥ नाम्नो नो लोपशधावित्यत्राधाविति निषेधाद्धावेव नलोपाभावोऽन्यत्र भ्यामादौ भवत्येवेति सूचनाय संबोधनान्तमवोदाहृतम् ॥ १५
SR No.002415
Book TitleSiddhant Chandrika Uttararddham
Original Sutra AuthorN/A
AuthorKshemraj Shrikrishnadas Shreshthi
PublisherKshemraj Shrikrishnadas Shreshthi
Publication Year1850
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy