________________
(२२६)
सिद्धान्तचन्द्रिका । [पूर्वकृदन्तप्रक्रिया ] (आशासःक्वायुपधाया ईत्वम् ) आशीः ।गी। पूः ॥ (सुबोधिनी)-आशासः क्वावुपधाया ईत्वम् । आङः शासु इच्छायामित्यात्मनेपदी । शारिरिति सूत्रेणेत्वे सिद्धे आशास उपध या ईत्वं कावेव नान्यवेति नियमार्थमिदं सूत्रम् । तेनाशास्ते इत्यत्रेत्वं न भवति। आशास्ते इति आशीः॥ गृ निगरणे । गिरतीति । ऋत इरितीर । वोविं हसे इति गर्घः । गीः॥ पृ पालनादौ । पिपर्तीति । पोरुरित्युर । 'वोवि हसे' इति दीर्घः। पूः॥
(इस्मन्त्रक्विषु च्छादेवस्वः) छद अपवारणे चुरादिः । तनु छादयतीति तनुच्छत् ॥ अक्षयूः । रेफाच्छोलापः क्वो झसादौ ह च प्रत्यये । मूः मुरौ । धूः धुरौ ॥
(सुबोधिनी)-इस्मन्त्रविषु च्छादेईस्वः ॥ छद अपवारणे । ञ्यन्तस्यास्य हस्वः स्यादेषु परेषु ॥ इसि प्रत्यये छर्दिः । मन्प्रत्यये छन । प्रत्यये छत्रम् । क्विपि तु तनुं छादयतीति । जेरिति जिलोपः। तनुच्छत् । दिवु क्रीडादौ । अझैदीव्यतीति । विङति झसे क्वौ जमे चेति वस्य ऊः । अक्षयूः ॥ मुर्छा मोहसमुच्छाययोः । मूर्छतीति । रेफाच्छोरिति छलोपः । 'य्वोर्वि हसे इति दीर्घः । मू: । धुर्वी हिंसायाम् । धूर्वतीति । रेफाच्छोरिति वलोपः। धूः ॥
(तत्त्वदी० )-तनुच्छदिति ।। तनुं छादयतीति विग्रहः । अक्षर्दीव्यतीति अक्षयः । मूरिति ॥ मूर्छतीति विग्रहः ॥
(दुहः को घोऽन्तादेशश्च ) कामदुधा ॥ __ (सुबोधिनी)-दुहः को घोऽन्तादेशश्च ॥ दुहः कमत्ययो हस्य घश्च स्यात् ॥ कप्रत्ययमाह-कित्त्वाद् गुणो न । कामं दोग्धीति कामदुघा धेनुः ॥
(दृशेष्टक्सको चोपमाने कार्ये) उपमान कर्मण्युपपदे दृशेष्टक्सको चाक्विः ॥
(सुबोधिनी)-दृशेष्टक्सको चोपमाने कार्ये ॥ ? क्सको प्रत्ययावाह-टित्त्वादीप् । कित्त्वाद् गुणो न ॥
(आसादेः) एषु परेषु सर्वादेष्टेरात्वम् ॥ अन्यादृशः। अन्यादृक्षः। अन्यादृक् । तादृशः। तादृक्षः । तादृक् ॥
(सुबोधिनी)-आ सर्वादेः॥ सर्वादेष्टेरात्स्याद् दृशक्षेषु परेषु ॥ अन्यमिव पश्यतीति अन्यादृशः। ईपि अन्यादृशी॥छशषेति षत्वम्। षढोरिति कत्वम् । अन्यादृक्षः॥क्विपि अन्यादृक् । तमिव पश्यतीति तादृशः।ईपि तादृशी । तादृक्षः। ताहक ।।
(तत्त्वदी०).-एषु परेण्विति॥एवं चोपमाने कर्मोपपदनिमित्तकटक्सककिप् एषु परेषु सर्वाटेरात्वं नान्यत्र । तेनसर्व पश्यतीति सर्वदृगित्यत्र न उपमानाभावात ॥ अन्यादृश इति ॥