________________
[ पूर्वकृदन्तप्रक्रिया ] टीकाद्वयोपेता।
(२२७) अन्य इव दृश्यते इति विग्रहः । एवमन्यत्रापि । अत्राहुः कर्तरि कृतो विधानात्कर्मार्थताऽयुक्ता। तमिव पश्यतीति चेन कर्मण्यणबाधात् , अपेक्षितार्थानुपस्थितेश्च । अत्र भाष्ये स इव भवति तादृश इति कर्मकर्तरि व्युत्पत्तिः प्रदर्शिता । बाहुलकात्कर्मण्यपीति तु बहवः ॥
(किमिदमः कीश् ) कीदृशः । कीदृक्षः। कीदृक् ॥ईदृशः ईदृक्षः ईदृक् ॥ भवादृशः । भवाहक्षः। भवाहक्॥ यादृशः यादृक्षः यादृक् ॥ अदसोऽमूः ॥ अदसोऽमूः स्यादृग्दृशक्षेषु ॥ अमूदृशः । अमूदृक्षः । अमूहक ॥ मादृशः । यादृक्षः। माहक ॥ त्वादृशः । त्वादृक्षः । त्वाहक्॥ युष्मादृशः । युष्मादृक्षः। युष्मादृक् ॥ अस्मादृशः । अस्माक्षः। अस्माक् ॥ समानस्य सः । सदृशः। सहक्षः। सहकू ॥
(सुबोधिनी)-किमिदमः कीश् ॥ किम्शब्दस्य इदम्शब्दस्य च की ईश आदेशौ स्तः । कमिव पश्यतीति कीदृशः। ईपि कीदृशी । कीदृक्षः । कीहक्॥इदमिव पश्यतीति ईदृशः । ईपि ईदृशी । ईदृक्षः। ईदृक् ॥ भवन्तमिव पश्यतीति भवादृशः। ईपि भवादृशी। भवादृक्षः। भवाक्यमिव यश्यतीति यादृशः। ईपि याशी यादृक्षः । यादृक्॥ अमुमिव पश्यतीति। अदसष्टेरावे कृते दस्य म इति मः।मादू इत्यूत्वम् । अमूदृशः। ईपि अमूदृशी अमूहक्षः। अमूहक्॥ मामिव त्वामिव च पश्यतीति। त्वन्मदेकत्वे इति त्वन्मदादेशे टेरात्वे च मादृशः। ईपि मादृशी।मादृक्षः । माकू ।। त्वादृशः। ईपि त्वादशी। त्वादृक्षः । त्वादृक् ॥ अस्मानिव युष्मानिव च पश्यतीति अस्मादृशः । ईपि अस्मादृशी । अस्मादृक्षः । अस्मादृक् ॥ युष्मादृशः । ईपि युष्मादृशी। युष्मादृक्षः । युष्मादृक् ॥
(णिनिरतीते ) धातोरतीते काले शीले च णिनिः ॥ अग्निष्टोमेनायाक्षीत् यजनशीलो वा अग्निष्टोमयाजी । पितृव्यघाती । उष्णभोजी॥
(सुबोधिनी)-णिनिरतीते॥नाम्न्युपसर्गे चोपपदे धातोरतीतेकाले ताच्छील्येच णिनिः स्यात्कर्तरि ॥ णिनिप्रत्ययमाह-णित्त्वाद् वृद्धिः। इकार उच्चारणार्थः। यज देवपूजादौ । अग्निष्टोमेनेष्टवान् इति । इनामिति दीर्घः । अनिष्टोमयाजी । स्तोत्रण समाप्यमानो यो यागः सोऽग्निष्टोमः । पितृव्यं हतवानिति। हनो घत् । पितृव्यघाती। शीले तु उष्णं भोक्तुं शीलमस्येति उष्णभोजी॥शीले किम् ।उष्णं भुङ्क्ते कदाचित॥
(तत्त्वदी०)-णिनिरतीते ॥ शीले तृन्नित्यतः शीले इत्यनुवर्तते । अग्निष्टोमेनायाक्षीदिति ॥ नन्वग्निष्टोमस्य कर्मनामधेयत्वेनाभेदात्कथं करणत्वमस्येति चेत्सत्यम् । अभ्यासोऽपि 'फलोत्पादनायां करणं संभवतीत्याकरे समाहितत्वादग्निष्टोमः फलभावनायां करणं भवत्येव ॥ उष्णभोजीति ॥ उष्णं भोक्तुं शीलमस्येति विग्रहः ॥